SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ८५० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विशेषः स्यादिति प्रक्रमः, इय त्ति पूरणे, यथा शक्रः पुरन्दर इत्यत्रैकार्थे शब्दद्वये शकनकाल एव शक्रः पूर्वारणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बध्यते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया एकार्थिकः शब्दो नाम यो दोष इति चायमपि च दोषः सामान्यापेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे 5 कारणमिति विशेषः, कार्यमपि विशेषो भवति, न चेहोक्तः, दशस्थानकानुवृत्तेः, अथवा कारणे कारणविषये विशेषो भेदो यथा परिणामिकारणं मृत्पिण्डः, अपेक्षाकारणं दिग्देश-काला-ऽऽकाश-पुरुष-चक्रादि, अथवोपादानकारणं मृदादि, निमित्तकारणं कुलालादि, सहकारिकारणं चक्र-चीवरादीत्यनेकधा कारणम्, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति, चः समुच्चये ५, तथा 10 प्रत्युत्पन्नो वार्त्तमानिकः अभूतपूर्व इत्यर्थः, दोषः गुणेतरः, स चातीतादिदोष सामान्यापेक्षया विशेषः, अथवा प्रत्युत्पन्ने सर्वथा वस्तुन्यभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः स दोषसामान्यापेक्षया विशेष इति ६, तथा नित्यो यो दोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषः, अथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बाल-कुमाराद्यवस्थाऽभावापत्तिलक्षण: - स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा हिअट्ठम त्ति अकारप्रश्लेषादधिकं वादकाले यत् परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्त-निगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादिति, आह चजिणवयणं सिद्धं चेव भन्नए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊ वि कहिंचि भन्नेज्जा ॥ तथा कत्थइ पंचावयवं दसहा वा सव्वहा न पडिकुटुं । [दशवै० नि० ४९-५०] ति । 20 ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो दूषणं वादिनः सोऽपि दोषविशेष एव, अयं चाष्टम आदितो गण्यमान इति ८, अत्तण त्ति आत्मना कृतमिति शेषः, तथा उपनीतं प्रापितं परेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः ९, चकारयोर्विशेष शब्दस्य च प्रयोगो भावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः 25 परोपनीतश्च दोष इति, दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश १. न्यायोद्ग्राहणे जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy