________________
[सू० ७४४]
दशममध्ययनं दशस्थानकम् ।
८४९ ७ । तथा सङ्क्रामणं प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः, अथवा प्रतिवादिमते आत्मनः सङ्क्रामणं परमताभ्यनुज्ञानमित्यर्थः, तदेव दोष इति ८। तथा निग्रहः छलादिना पराजयस्थानम्, स एव दोषो निग्रहदोष इति ९। तथा वसतः साध्यधर्म-साधनधावत्रेति वस्तु प्रकरणात् पक्षस्तस्य दोषः प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति १० ।
एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह- दसेत्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्, वत्थु इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तनसूत्रस्यान्तोक्तो यः पक्षः, तज्जातमिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि, तद्विषयो दोषो वस्तुतजातदोषः, तत्र वस्तुदोष: पक्षदोषस्तजातदोषश्च जात्यादिहीलनमेतौ च विशेषौ 10 दोषसामान्यापेक्षक्षक्षया, अथवा वस्तुदोषे वस्तुदोषविषये विशेषो भेदः प्रत्यक्षनिराकृतत्वादिः, तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः, अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्ये ति, लोकरूढि निराकृतो यथा शुचि नरशिरःकपालमिति, तजातदोषविषयेऽपि भेदो जन्म-मर्म-कर्मादिभिः, जन्मदोषो यथा
15 कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण ।
तस्स महायणमज्झे आयारा पायडा होंति ॥ [ ] इत्यादिरनेकविधः १-२, चकारः समुच्चये, तथा दोसे त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयो दोषा अष्टावुक्तास्ते दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो विशेषः, अथवा दोसे त्ति दोषेषु शेषदोषविषये विशेषो भेदः, स चानेकविधः स्वयमूह्यः ३, 20 एगट्ठिए इय त्ति एकश्चासावर्थश्च अभिधेयः एकार्थः, स यस्यास्ति स एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः उपप्रदर्शने, चः समुच्चये, स च शब्दसामान्यापेक्षयैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थिको यथा गौः, यथोक्तम्
दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ ऽशौ ८ पशौ ९ च गोशब्दः [ ] इति, इहैकार्थिकविशेषग्रहणेनाऽनेकार्थिकोऽपि गृहीतस्तद्विपरीतत्वात्, न चेहासौ 25 गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकार्थिके शब्दग्रामे यः कथञ्चिद्भेदः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org