________________
८४८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अन्यथा धूमादनलानुमानमपि न सिद्ध्येत् तथाहि- अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यते किमोतिशब्दनिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगत: ?, यदि पर्वतादिगतः सोऽग्निना न व्याप्त: सिद्ध इत्यसाधारणानैकान्तिको
हेतुः, अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष 5 इति ४ । तथा लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम्, स्वं च तल्लक्षणं
च स्वलक्षणम्, यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् ५। तथा करोतीति कारणं परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधानुगतो
दृष्टान्तोऽस्तीत्युपपत्तिमात्रता, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात् ६। तथा हिनोति 10 गमयतीति हेतुः साध्यसद्भावभाव-तदभावाभावलक्षणः, ततः स्वलक्षणादीनां
द्वन्द्वः, तेषां दोषः स्वलक्षण-कारण-हेतुदोषः, इह काशब्दः छन्दोऽर्थं द्विर्बद्धो ध्येयः, अथवा सह लक्षणेन यौ कारण-हेतू तयोर्दोष इति विग्रहः, तत्र लक्षणदोषोऽव्याप्तिरतिव्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधाना-ऽसन्निधानाभ्यां
ज्ञानप्रतिभासभेदस्तत् स्वलक्षणमिति, इदं स्वलक्षणलक्षणम्, इदं चेन्द्रियप्रत्यक्षमेवाश्रित्य 15 स्यात् न योगिज्ञानम्, योगिज्ञाने हि न सन्निधाना-ऽसन्निधानाभ्यां प्रतिभासभेदो
ऽस्तीत्यतस्तदपेक्षया न किञ्चित् स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणम्, इह चार्थोपलब्धिहेतूनां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात्, अथवा दार्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तः, तद्दोषः
साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः शब्दो मूर्त्तत्वाद् घटवद्, इह 20 घटे नित्यत्वं नास्तीति । कारणदोषः साध्यं प्रति तद्व्यभिचारो यथा अपौरुषेयो वेदो
वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति । हेतुदोषोऽसिद्ध-विरुद्धाऽऽनैकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्धम्, विरुद्धो यथा नित्यः शब्दः कृतकत्वात्
घटवद्, इह घटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिको यथा 25 नित्यः शब्दः प्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः संशय एवेति
१. ततश्च स्वल' पा० जे२ ॥ २. . हेतुभूतानां पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org