SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । ८४७ [सू० ७४४] [सू० ७४४] दसविधे दोसे पन्नत्ते, तंजहातजातदोसे मतिभंगदोसे, पसत्थारदोसे परिहरणदोसे । सलक्खण-कारण-हेउदोसे, संकामणं निगह वत्थुदोसे ॥१६१॥ १॥ दसविधे विसेसे पन्नत्ते, तंजहावत्थु-तज्जातदोसे त, दोसे एगट्टिते ति त । कारणे त पडुप्पन्ने, दोसे निच्चे [s]हिअट्ठमे ॥ अत्तणा उवणीते त, विसेसे तित ते दस ॥१६२॥ २॥ दसविधे सुद्धावाताणुओगे पन्नत्ते, तंजहा-चंकारे, मंकारे, पिंकारे, सेतंकारे, सातंकारे, एगत्ते, पुधत्ते, संजूहे, संकामिते, भिन्ने ३। [टी०] अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोषप्रस्तावाद्दोषविशेषनिरूपणायाह– 10 दसविहेत्यादि । तज्जायेत्यादि वृत्तम्, एते हि गुरु-शिष्ययोर्वादि-प्रतिवादिनोर्वा वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुर्वादेर्जातं जातिः प्रकारो वा जन्म-मर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमिति कृत्वा दोषस्तज्जातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात् प्रतिवाद्यादेः सकाशाज्जातः क्षोभान्मुखस्तम्भादिलक्षणो दोषस्तज्जातदोषः १ । तथा स्वस्यैव मतेः बुद्धर्भङ्गो विनाशो मतिभङ्गो विस्मृत्यादिलक्षणो दोषो 15 मतिभङ्गदोषः २ । तथा प्रशास्ता अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः, इह त्थाशब्दो लघुश्रुतिरिति ३। तथा परिहरणम् आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य, तदेव दोषः परिहरणदोषः, अथवा परिहरणम् अनासेवनं सभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोष: 20 परिहरणदोषः, अथवा वादिनोपन्यस्तस्य दूषणस्य असम्यक् परिहारो जात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदिति, अत्र मीमांसकः परिहारमाह- ननु घटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा?, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः, अथ शब्दगतं तन्नानित्यत्वेन व्याप्तमुपलब्धमित्यसाधारणानैकान्तिको हेतुरित्ययं न सम्यक् परिहारः, एवं हि 25 सर्वानुमानोच्छेदप्रसङ्गः, अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy