________________
८४६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे भूतवादः, तथा तत्त्वानि वस्तूनामैदम्पर्याणि, तेषां वादस्तत्त्ववादः, तथ्यो वा सत्यो वादस्तथ्यवादः, तथा सम्यग् अविपरीतो वादः सम्यग्वादः, तथा धर्माणां वस्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्मवादः, तथा भाषा सत्यादिका तस्या विचयो निर्णयो भाषाविचयः, भाषाया वा वाचो विजयः समृद्धिर्यस्मिन् स 5 भाषाविजयः, तथा सर्वश्रुतात् पूर्वं क्रियन्त इति पूर्वाणि उत्पादपूर्वादीनि चतुर्दश, तेषु गतः अभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोगः प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थः, गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तरविमानवक्तव्यताख्यानग्रन्थ इति द्विरूपेऽनुयोगे
गतोऽनुयोगगतः, एतौ च पूर्वगता-ऽनुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे 10 समुदायोपचारादिति, तथा सर्वे विश्वे ते च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च तरवः
जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राण-भूत-जीव-सत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति ।
[सू० ७४३] दसविधे सत्थे पण्णत्ते, तंजहा15 सत्थमग्गी विसं लोणं, सिणेहो खारमंबिलं ।
दुप्पउत्तो मणो वाया, कायो भावो त अविरती ॥१६०॥ [टी०] प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात्, शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह- दसेत्यादि, शस्यते हिंस्यते अनेनेति शस्त्रम् । सत्थं सिलोगो, शस्त्रं हिंसकं वस्तु, तच्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते- अग्निः अनलः, 20 स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रम् १, विषं स्थावर-जङ्गमभेदम् २, लवणं प्रतीतम् ३, स्नेहः तैल-घृतादिः ४, क्षारो भस्मादिः ५, अम्लं काञ्जिकम् ६, भावो य त्ति इह द्रष्टव्यम्, तेन भावो भावरूपं शस्त्रम्, किं तदित्याह- दुष्प्रयुक्तम् अकुशलं मनो मानसम् ७, वाग् वचनं दुष्प्रयुक्ता
८, कायश्च शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्तौ खड्गादेरुपकरणत्वात् 25 कायग्रहणेनैव तद्ग्रहणं द्रष्टव्यमिति, अविरतिश्च अप्रत्याख्यानमथवा अविरतिरूपो
भावः शस्त्रमिति १० । १. नन्दीसू० ११०-११२ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org