SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [सू० ७४२] दशममध्ययनं दशस्थानकम् । ८४५ ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, उप्पन्नविगयमीसए त्ति उत्पन्नं च विगतं च उत्पन्नविगते, तद्विषयं मिश्रकम् उत्पन्नविगतमिश्रकम्, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाता: दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभाव इति ३, जीवमीसए त्ति जीवविषयं सत्यासत्यं जीवमिश्रम्, यथा जीवन्मृतकृमिराशौ जीवराशिरिति ४, अजीवमीसए त्ति अजीवानाश्रित्य 5 मिश्रमजीवमिश्रम्, यथा तस्मिन्नेव च प्रभूतमृतकृमिराशावजीवराशिरिति ५, जीवाजीवमिस्सए त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, अणंतमीसए त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकायोऽयमित्यभिदधत: ७, परित्तमिस्सए त्ति 10 परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः ८, अद्धामिस्सए त्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासरे एव रजनी वर्त्तत इति ब्रवीति ९, अद्धद्धामीसए त्ति अद्धा दिवसो रजनी वा, तदेकदेश: प्रहरादि: अद्धाद्धा, तद्विषयं मिश्रकं सत्यासत्यं अद्धाद्धामिश्रकम्, यथा कश्चित् कस्मिंश्चित् प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह। 15 [सू० ७४२] दिट्ठिवातस्स णं दस नामधेजा पन्नत्ता, तंजहा-दिट्ठिवाते ति वा, हेउवाते ति वा, भूतवाते ति वा, तच्चावाते ति वा, सम्मावाते ति वा, धम्मावाते ति वा, भासाविजते ति वा, पुव्वगते ति वा, अणुजोगगते ति वा, सव्वपाण-भूत-जीव-सत्तसुहावहे ति वा । [टी०] भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषारूपं दृष्टिवादं पर्यायतो 20 दशधाऽऽह- दिट्ठीत्यादि, दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादो दृष्टिवाद: दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपात:, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा- दृष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा हिनोति गमयति जिज्ञासितमर्थमिति हेतुः अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा, तद्वादो हेतुवादः, तथा भूता: सद्भूता: पदार्थास्तेषां वादो 25 १. परीत खं० विना ॥ २. परीत जे१, २ ॥ ३. परीत' जे१ ॥ ४. परीतो जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy