________________
८४४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सत्यता, ववहार त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिः, गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहार: प्रवर्त्तते, उदके च गलति सतीति, भाव त्ति भावभूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, जोगे त्ति योगत: संबन्धत: 5 सत्यं योगसत्यम्, यथा दण्डयोगाद् दण्डः छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकार: प्रथमैकवचनार्थो द्रष्टव्य इति । ___ सत्यविपक्षं मृषाह- दसेत्यादि, मोसे त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः, कोहे
गाहा, कोहे त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं कोपाश्रितं मृषेत्यर्थः, तच्च 10 यथा क्रोधाभिभूत: अदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित्
केनचिदल्पधनोऽपि पृष्टः सन्नाह महाधनोऽहमिति, माय त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः- नष्टो गोलकः इति, लोभे त्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, पिज त्ति प्रेमणि निश्रितम् अतिरक्तानां दासोऽहं तवेत्यादि, तहेव दोसे य त्ति द्वेषे निश्रितम्, मत्सरिणां गुणवत्यपि 15 निर्गुणोऽयमित्यादि, हासे त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित् कस्यचित् सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, भये त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, अक्खाइय त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलाप:, उवघाये निस्सिये त्ति उपघाते प्राणिवधे निश्रितम् आश्रितं दशमं मृषा, अचौरे
चौरोऽयमित्यभ्याख्यानवचनम्, मृषाशब्दस्त्वव्यय इति । 20 सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह- दसेत्यादि, सत्यं च तन्मषा चेति प्राकृतत्वात् सच्चामोसं ति, उप्पन्नमीसए त्ति उत्पन्नविषयं मिश्रं सत्यमृषा उत्पन्नमिश्रं तदेवोत्पन्नमिश्रकम्, यथै कं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्न्यूनाधिकभावे व्यवहारतोऽस्य सत्यमृषात्वात्, श्वस्ते शतं
दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवाऽदत्तेष्वेव 25 वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद, एवं विगतादिष्वपि
भावनीयमिति, १, विगतमीसए त्ति विगतविषयं मिश्रकं विगतमिश्रकम्, यथैकं १. इहेति पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org