SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ८४३ 10 [सू० ७४१] दशममध्ययनं दशस्थानकम् । सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । [सू० ७४१] दसविधे सच्चे पण्णत्ते, तंजहाजणवय सम्मुति ठवणा, नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे, दसमे ओवम्मसच्चे य ॥१५८॥ दसविधे मोसे पन्नत्ते, तंजहाकोधे माणे माया, लोभे पेजे तहेव दोसे य ।। हास भते अक्खातित, उवघाते निस्सिते दसमे ॥१५९॥ दसविधे सच्चामोसे पन्नत्ते, तंजहा- उप्पन्नमीसते, विगतमीसते, उप्पन्नविगतमीसते, जीवमीसए, अजीवमीसए, जीवाजीवमीसए, अणंतमीसए, परित्तमीसए, अद्धामीसते, अद्धद्धामीसते । [टी०] चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह- दसविहेत्यादि, सन्त: प्राणिन: पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत् प्रज्ञप्तम्, तद्यथाजणवय गाहा, जणवय त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम्, यथा कोकणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं 15 चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, संमुइ त्ति संमतं च तत् सत्यं चेति सम्मतसत्यम्, तथाहिकुमुद-कुवलयोत्पल-तामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संमततया पङ्कजशब्दः सत्य: कुवलयादावसत्योऽसंमतत्वादिति, ठवण त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकाल्दादिविकल्पेन स्थाप्यते तद्विषये सत्यं 20 स्थापनासत्यम्, यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामे त्ति नाम अभिधानं तत् सत्यं नामसत्यम्, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, रूवे त्ति रूपापेक्षया सत्यं रूपसत्यम्, यथा प्रपञ्चयति: प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, पडुच्चसच्चे य त्ति प्रतीत्य आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यम्, यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि- 25 तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy