________________
८४२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे उवस्सयसंकिलेसे, कसायसंकिलेसे, भत्तपाणसंकिलेसे, मणसंकिलेसे, वतिसंकिलेसे, कायसंकिलेसे, णाणसंकिलेसे, दंसणसंकिलेसे, चरित्तसंकिलेसे।
दसविधे असंकिलेसे पन्नत्ते, तंजहा-उवहिअसंकिलेसे जाव चरित्त5 असंकिलेसे ।
[टी०] इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याधुपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम्- दसेत्यादि, सङ्क्ले श: असमाधि:, उपधीयते उपष्टभ्यते संयम: संयमशरीरं वा येन स उपधि: वस्त्रादिस्तद्विषय: सङ्क्ले श: उपधिसङ्क्लेश:,
एवमन्यत्रापि, नवरम् उवस्सय त्ति उपाश्रयो वसतिः, तथा कषाया एव कषायैर्वा 10 सङ्क्लेश: कषायसङ्क्लेशः, तथा भक्त-पानाश्रितः सङ्क्लेशो भक्त-पान
सङ्क्लेशः, तथा मनसो मनसि वा सङ्क्लेशः, वाचा सङ्क्लेश:, कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सङ्क्लेश: अविशुद्ध्यमानता स ज्ञानसङ्क्लेश:, एवं दर्शन-चारित्रयोरपीति । ___ एतद्विपक्षोऽसङ्क्लेशस्तमधुनाऽऽह- दसेत्यादि, कण्ठ्यम् । 15 [सू० ७४०] दसविधे बले पन्नत्ते, तंजहा-सोतिदितबले जाव फासिंदितबले, णाणबले, दसणबले, चरित्तबले, तवबले, वीरितबले ।
टी०] असङ्क्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह- दसेत्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं स्वार्थग्रहणसामर्थ्यम्,
जाव त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलमतीतादिवस्तुपरिच्छेदसामर्थ्य 20 चारित्रसाधनतया मोक्षसामर्थ्य वा, दर्शनबलं सर्ववे दिवचनप्रामाण्याद
तीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणम्, चारित्रबलं यद् दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकवावर्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थिं क्षपयति, वीर्यमेव बलं वीर्यबलम्, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय १. चरित्र' जे१ खं० ॥ २. भवार्जित पासं०, एष पाठः समीचीनतरो भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org