________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
[टी०] प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आह– दसविहेत्यादि, आरोग गाहा, आरोग्यं नीरोगता १, दीर्घमायुः चिरं जीवितम्, शुभमितीह विशेषणं दृश्यमिति २, अड्डेज्जं ति आढ्यत्वं धनपतित्वं सुखकारणत्वात् सुखम्, अथवा आढ्यैः क्रियमाणा इज्या पूजा आढ्येज्या, प्राकृतत्वादड्डेज्जं ति ३, 5 काम त्ति कामौ शब्द-रूपे सुखकारणत्वात् सुखम् ४, एवं भोगे त्ति भोगा: गन्धरस-स्पर्शाः ५, तथा सन्तोष: अल्पेच्छता, तत् सुखमेव आनन्दरूपत्वात् सन्तोषस्य, उक्तं च
८४०
आरोगसारियं माणुसत्तणं सच्चसारिओ धम्मो ।
] ति ६ ।
विज्जा निच्छयसारा सुहाई संतोससाराई ॥ [ 10 अस्थि ति येन येन यदा यदा प्रयोजनं तत्तत्तदा तदाऽस्ति भवति जायते इति सुखमानन्दहेतुत्वादिति ७, सुहभोग त्ति शुभ: अनिन्दितो भोगो विषयेषु भोगक्रियेति,
सुखमेव सातोदयसम्पाद्यत्वात् तस्येति ८, निक्खम्ममेव त्ति निष्क्रमणं निष्क्रमः अविरतिजम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकता च प्राकृतत्वात्, एवकारोऽवधारणे, अयमर्थ:- निष्क्रमणमेव भवस्थानां सुखम्, निराबाधस्वायत्ता15 नन्दरूपत्वात्, अत एवोच्यते - दुवालसमासपरियाए समणे निग्गंथे अणुत्तराणं देवानं उल्ले वीवति [ भगवती० १४।९।१७] त्ति तथा
नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य ।
यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ [प्रशम० गा० १२८] इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानमात्रजनकत्वाच्च तत्त्वतो न सुखं भवन्तीति ९, तत्तो 20 अणाबाहे त्ति ततो निष्क्रमणसुखानन्तरम् अनाबाधं न विद्यते आबाधा जन्म-जरामरण-क्षुत्-पिपासादिका यत्र तदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तमम्, यत
25
उक्तम्–
वि अत्थि माणुसणं तं सोक्खं नवि य सव्वदेवाणं ।
जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥ [ आव० नि० ९८०] ति १० । [सू० ७३८ ] दसविधे उवघाते पन्नत्ते, तंजहा - उग्गमोवघाते, उप्पायणोवघाते १. सा सुख खं० ॥ २. विइवइति पा० जे२ । वि वयइति खं० ॥ “बारसमासपरियाए सम निग्गंथे अणुत्तरोववातियाणं देवाणं तेयलेस्सं वीतीवयति ।" इति भगवत्याम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org