SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ८३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रम्, तत्र अधर्मे श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा आगमबुद्धिर्मिथ्यात्वम्, विपर्यस्तत्वादिति १, धर्मे कष-च्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा, सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्रमाणतोऽनाप्तास्तदभावान्न 5 तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २, तथा उन्मार्गो निर्वृतिपुरी प्रति अपन्था: वस्तुतत्त्वापेक्षया विपरीतश्रद्धान-ज्ञाना-ऽनुष्ठानरूपस्तत्र मार्गसंज्ञा कुवासनातो मार्गबुद्धि: ३, तथा मार्गेऽमार्गसंज्ञेति प्रतीतम् ४, तथा अजीवेषु आकाशपरमाण्वादिषु जीवसंज्ञा पुरुष एवेदमित्याद्यभ्युपगमादिति, तथा क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-चन्द्र-सूर्याख्या: । 10 इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ॥ [ ] इति ५, तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवा उच्छ्वासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति ६, तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७, तथा साधुषु ब्रह्मचर्यादिगुणान्वितेषु 15 असाधुसंज्ञा, ‘एते हि कुमारप्रव्रजिताः, नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वा' इत्यादिविकल्पात्मिकेति ८, तथाऽमुक्तेषु सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिन: सदा । ___मोदन्ते निर्वृतात्मानस्तीर्णा: परमदुस्तरम् ॥ [ ] 20 इत्यादिविकल्पात्मिकेति ९, तथा मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञान दर्शन-सुख-वीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः, अनादिकर्मयोगस्य निवर्त्तयितुमशक्यत्वादनादित्वादेव आकाशा-ऽऽत्मयोगस्येवेति, न सन्ति वा मुक्ता: मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । [सू० ७३५] चंदप्पभे णं अरहा दस पुव्वसतसहस्साइं सव्वाउयं पालइत्ता 25 सिद्धे जाव प्पहीणे १॥ धम्मेणमरहा दस वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव १. दृश्यतां पृ० ७२९ पं० २ टि०१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy