SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [सू० ७३३-७३४] दशममध्ययनं दशस्थानकम् । ८३७ त्ति, अमायी अपच्छाणुतावीति पदद्वयमिहाधिकं प्रकटं च, नवरं ग्रन्थान्तरोक्तं तत्स्वरूपमिदम्- नो पलिउंचे अमायी अपच्छयावी न परितप्पे [ ] त्ति । एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाहदसहीत्यादि, आयारवं ति ज्ञानाद्याचारवान् १, अवहारवं ति अवधारणावान् २, जावकरणात् ववहारवं आगमादिपञ्चप्रकारव्यवहारवान् ३, उव्वीलए अपव्रीडक: 5 लज्जापनोदको यथा पर: सुखमालोचयतीति ४, पकुव्वी आलोचिते शुद्धिकरणसमर्थः ५, निजवए यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोढुमलं भवतीति ६, अपरिस्सावी आलोचकदोषानुपश्रुत्य यो नोगिरति ७, अवायदंसी सातिचारस्य पारलौकिकापायदर्शीति पूर्वोक्तमेव ८, पियधम्मे ९, दढधम्मे १० त्ति अधिकमिह, प्रियधा धर्मप्रियः, दृढधा य आपद्यपि धान्न चलतीति । 10 [सू० ७३३] दसविधे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे जाव अणवठ्ठप्पारिहे, पारंचितारिहे । टी०] आलोचितदोषाय प्रायश्चित्तं देयमतस्तत्प्ररूपणसूत्रं दसविहेत्यादि, आलोचना गुरुनिवेदनम्, तयैव यच्छुद्ध्यत्यतिचारजातं तत्तदर्हत्वादालोचनार्हम्, तच्छुद्ध्यर्थं यत् प्रायश्चित्तं तदप्यालोचनाहम्, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् पडिक्कमणारिहे 15 प्रतिक्रमणं मिथ्यादुष्कृतं तदर्हम्, तदुभयारिहे आलोचना-प्रतिक्रमणाहमित्यर्थः, विवेगारिहे परित्यागशोध्यम्, विउसग्गारिहे कायोत्सर्गार्हम्, तवारिहे निर्विकृतिकादितप:शोध्यम्, छेदारिहे पर्यायच्छेदयोग्यम्, मूलारिहे व्रतोपस्थापनार्हम्, अणवट्ठप्पारिहे यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याहम्, पारंचियारिहे 20 एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्ग-क्षेत्र-काल-तपोभि: पाराञ्चिको बहिर्भूत: क्रियते तत् पाराञ्चिकम्, तदर्हमिति । [सू० ७३४] दसविधे मिच्छत्ते पण्णत्ते, तंजहा-अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उम्मग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाधूसु साधुसण्णा, साधूसु असाधुसण्णा, अमुत्तेसु 25 मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy