________________
८३६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे बायरं व त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, सुहुमं व त्ति सूक्ष्ममेव वाऽतिचारमालोचयति, य: किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, आह चबायर-वड्डवराहे जो आलोएइ सुहुम नालोए । अहवा सुहुमा लोए वर मन्नंतो उ एवं तु ॥ जो सुहुमे आलोए सो किह नालोय बायरे दोसे ? ॥ [ ] त्ति । छण्णं ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः, भणितं चछण्णं तह आलोए जह नवरं अप्पणा सुणइ [ ] त्ति ।
सद्दाउलयं ति शब्देनाकुलं शब्दाकुलं बृहच्छब्दम्, तथा महता शब्देनालोचयति 10 यथाऽन्येऽप्यगीतार्थास्ते शृण्वन्तीति, अभाणि च
सद्दाउल वड्डेणं सद्देणालोय जह अगीया वि बोहेइ ॥ [ ] त्ति ।
बहुजणं ति बहवो जना आलोचनाचार्याः यस्मिन्नालोचने तद् बहुजनम्, अयमभिप्राय:
एक्कस्सालोएत्ता जो आलोए पुणो वि अन्नस्स । 15 ते चेव य अवराहे तं होइ बहुजणं नाम ॥ [ ] त्ति ।।
अव्वत्तं ति अव्यक्तस्य अगीतार्थस्य गुरोः सकाशे यदालोचनं तत् तत्सम्बन्धादव्यक्तमुच्यते, उक्तं च
जो य अगीयत्थस्सा आलोए तं तु होइ अव्वत्तं [ ति ।
तस्सेवि त्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स 20 तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्राय: आलोचयितु:
जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं । इय जो किलिट्ठचित्तो दिन्ना आलोयणा तेणं ॥ [ ] ति ।
एतद्दोषपरिहारिणाऽपि गुणवतैवालोचना देयेति तद्गुणानाह- दसहिं ठाणेहीत्यादि, एवं ति अनेन क्रमेण यथाऽष्टस्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियङ्करम् ? 25 यावत् खंते दंते त्ति पदे, तथाहि- विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्ने
१. अप्पणो जे१ ॥ २. एवं अनेन पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org