________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
माउयाणुओगे, एगट्ठियाणुओगे, करणाणुओगे, अप्पिताणप्पिते, भाविताभाविते, बाहिराबाहिरे, सासतासासते, तधणाणे, अतधणाणे ।
८२८
[टी] अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह- दसविहे दवियेत्यादि, अनुयोजनं सूत्रस्यार्थेन सम्बन्धनम्, अनुरूपोऽनुकूलो वा योग: 5 सूत्रस्याभिधेयार्थं प्रति व्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा— चरणकरणानुयोगो धर्म्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च, तत्र द्रव्यस्य जीवादेरनुयोगो विचारो द्रव्यानुयोगः, स च दशधा, तत्र दवियाणुओगे त्ति यज्जीवादेर्द्रव्यत्वं विचार्यते स द्रव्यानुयोगः, यथा द्रवति गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यं गुण- पर्यायवानर्थ:, तत्र सन्ति जीवे ज्ञानादयः 10 सहभावित्वलक्षणा गुणाः, न हि तद्वियुक्तो जीवः कदाचनापि संभवति जीवत्वहानेः, तथा पर्याया अपि मानुषत्व - बाल्यादयः कालकृतावस्थालक्षणाः तत्र सन्त्येवेत्यतो भवत्यसौ गुण-पर्यायवत्त्वात् द्रव्यमित्यादिः द्रव्यानुयोगः १, तथा माउयाणुओगे त्ति, इह मातृकेव मातृका प्रवचनपुरुषस्योत्पाद-व्यय-ध्रौव्यलक्षणा पदत्रयी, तस्या अनुयोगो यथा उत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनाद् अनुत्पादे च 15 वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्ते:, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा अकृताभ्यागमकृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणा-ऽभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पाद20 व्यय - ध्रौव्ययुक्तमतो द्रव्यमित्यादिः मातृकापदानुयोग: २, तथा एगट्ठियाणुओगे एकश्चासावर्थश्च अभिधेयो जीवादिः स येषामस्ति त एकार्थिकाः शब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, एकार्थिकानुयोगो यथा जीवद्रव्यं प्रति जीव: प्राणी भूतः सत्त्वः, एकार्थिकानां वाऽनुयोगो यथा जीवनात् प्राणधारणाज्जीवः, प्राणानाम् उच्छ्वासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात् सत्त्वः इत्यादिः ३, 25 तथा करणाणुओगे त्ति क्रियते एभिरिति करणानि तेषामनुयोग: करणानुयोग:, तथाहि१. मित्यादि द्रव्या पा० जे२ ॥ २. मित्यादि मातृ पा० ॥ ३ जीवद्रव्यं प्रति नास्ति जे१ ॥ ४. इत्यादि खं० पा० जे२ ॥
ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org