________________
[सू० ७२६] दशममध्ययनं दशस्थानकम् ।
૮ર૭ लक्षम्, कथम् ?, मूलविष्कम्भादुभयत एकैकप्रदेशवृद्ध्या विस्तरं गच्छतां या एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायां श्रेण्याम् अत्यन्तमध्ये, ततोऽध उपरि च प्रदेशोनं लक्षमित्यर्थः, तथा उवरिं किमुक्तं भवति? अत आह- मुखमूले मुखप्रदेशे, कुड्ड त्ति कुड्यानि भित्तय इत्यर्थः, सर्वाणि च तानि वज्रमयानि चेति वाक्यम्, सर्वेऽपीति सप्त सहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्येवं- 5 सङ्ख्या :, क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रम्, मूले मुखे च विष्कम्भेण शतम्, कुड्यबाहल्येन च दश । धायईत्यादि, मंदर त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रतः सिद्धम्, विशेष उच्यतेधायइसंडे मेरू चुलसीइ सहस्स ऊसिया दो वि । ओगाढा य सहस्सं होंति य सिहरम्मि वित्थिन्ना ॥ [बृहत्क्षेत्र० ३।५७]
10 मूले पणनउइ सया चउणउइ सया य होंति धरणियले । [बृहत्क्षेत्र० ३।५८] इति,
सर्वेऽपि वृत्तवैताढ्यपर्वता: विंशति: प्रत्येकं पञ्चसु हैमवतैरण्यवत-हरिवर्ष-रम्यकेष्वेषां शब्दावती-विकटावती-गन्धावती-मालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घवैताढ्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वत: प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्चतुष्टयव्यवस्थित- 15 पुष्करिणीमध्यवर्त्तिन: षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिता: चत्वारश्चतु:स्थानकाभिहितस्वरूपा: । रुचको रुचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वत: । कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत: एव, एवं कुण्डलवरे वीत्यनेनेह कुण्डलवर उद्वेध-मूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्तः, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्त:
दस चेव जोयणसए बावीसे वित्थडो उ मूलम्मि । चत्तारि जोयणसए चउवीसे वित्थडो सिहरे ॥ [द्वीपसागर० ७४] त्ति ।
अत्र तुल्यं रुचकस्यापि, तत्रायं विशेष उक्त:- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति ।
[सू० ७२६] दसविधे दवियाणुओगे पन्नत्ते, तंजहा-दवियाणुओगे, 25 १. उपरि पा० जे२ ।। २. सूत्रसिद्धं पा० जे२ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org