SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ [सू० ७२६ ] दशममध्ययनं दशस्थानकम् । " जीवद्रव्यस्य कर्त्तुर्विचित्रक्रियासु साधकतमानि काल - स्वभाव-नियति- पूर्वकृतानि, नैकाकी जीवः किञ्चन कर्त्तुमलमिति, मृद्द्रव्यं वा कुलाल - चक्र - चीवर - दण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति ४, तथा अप्पियाणप्पिए त्ति द्रव्यं ह्यर्पितं विशेषितं यथा जीवद्रव्यं किंविधम् ? संसारीति, संसार्यपि त्रसरूपम्, त्रसरूपमपि पञ्चेन्द्रियम्, तदपि 5 नररूपमित्यादि, अनर्पितम् अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोगः ५, तथा भावियाभाविए ति भावितं वासितं द्रव्यान्तरसंसर्गतः अभावितमन्यथैव येत्, यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितं च तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितं चेतरभावितम्, तत् द्विविधमपि वामनीयमवामनीयं च, तत्र वामनीयं यत् संसर्गजं गुणं 10 दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्त संसर्गं वा वज्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादि द्रव्यमपि ततश्च भावितं च अभावितं च भाविताभावितम् एवंभूतो विचारो द्रव्यानुयोग इति ६, बाहिरबाहिरे त्ति बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात् तदेवाबाह्यममूर्त्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा 15 अबाह्यं जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्म्मचैतन्यादि त्वबाह्यमाध्यात्मिकमिति यावदिति, एवमन्यो द्रव्यानुयोग इति ७, तथा सासयासासए त्ति शाश्वताशाश्वतम्, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्याय-प्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा तहनाणे ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात्, 20 अथवा यथा तद्वस्तु तथैव ज्ञानम् अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानम्, घटादिद्रव्यं घटादितयैव प्रतिभासमानम्, जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति ९, अतहणाणे ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा चक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि— एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत् परिणामितयेति 25 १. यत् नास्ति जे१ ॥ Jain Education International ܕ For Private & Personal Use Only " ८२९ www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy