________________
[सू० ७१५] दशममध्ययनं दशस्थानकम् ।
८२१ तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे तस्या एव रात्रे: शेषं परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहृत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च– आइन्नं दिणमुक्के सो च्चिय दिवसो व राई व । [आव० नि० १३५७] त्ति, चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितम्, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन 5 विलक्षणत्वादिति ।
पडणे त्ति पतनं मरणं राजा-ऽमात्य-सेनापति-ग्रामभोगिकादीनाम्, तत्र यदा दण्डिक: कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयन्ति, निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति, ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजने वा शय्यातरे वा पुरुष्ठान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, 10 निर्दु:खा एत इति गहीँ लोको मा कार्षीदिति, आह च
मयहर पगए बहुपक्खिए य सत्तघरअंतरमयम्मि । _निढुक्ख त्ति य गरहा न पढंति सणीयगं वा वि ॥ [आव० नि० १३६१] त्ति ।
तथा रायवुग्गहे त्ति राज्ञां सङ्ग्राम उपलक्षणत्वात् सेनापति-ग्रामभोगिकमहत्तर-पुरुष-स्त्री-मल्लयुद्धान्यस्वाध्यायिकम्, एवं पांशु-पिष्टादिभण्डनान्यपि, यत एते 15 प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दु:खा एत इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्तं चसेणाहिव भोइय मयहरे य पुंसित्थिमल्लयुद्धे य । लोहाइभंडणे वा गुज्झग उड्डाह अचियत्तं ॥ [आव० नि० १३५९] ति ।। तथोपाश्रयस्य वसतेरन्त: मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति।
सू० ७१५] पंचेंदिया णं जीवा असमारभमाणस्स दसविधे संजमे कजति, तंजहा-सोतामताओ सोक्खाओ अवरोवेत्ता भवति, सोतामतेणं दुक्खेणं 25 १. यन्तीति पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org