________________
८२२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे असंजोगेत्ता भवति, एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति । एवं असंजमो वि भाणितव्वो ।
[टी०] पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात् तदाश्रितसंयमा-ऽसंयमसूत्रे गतार्थे । 5 [सू० ७१६] दस सुहुमा पन्नत्ता, तंजहा-पाणसुहुमे, पणगसुहुमे जाव सिणेहसुहुमे, गणितसुहुमे, भंगसुहुमे ।
[टी०] संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह- दस सुहुमेत्यादि, प्राणसूक्ष्मम् अनुद्धरितकुन्थुः, पनकसूक्ष्मम् उल्ली, यावत्करणादिदं द्रष्टव्यम्, बीजसूक्ष्म
व्रीह्यादीनां नखिका, हरितसूक्ष्मं भूमिसमवर्णं तृणम्, पुष्पसूक्ष्मं वटादिपुष्पाणि, 10 अण्डसूक्ष्म कीटिकाद्यण्डकानि, लयनसूक्ष्मम् कीटिकानगरकादि, स्नेहसूक्ष्म
अवश्यायादीत्यष्टस्थानकभणितमेव, इदमपरं गणितसूक्ष्मम्, गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रान्तं गणितमिति, भङ्गसूक्ष्मं भङ्गा भङ्गका वस्तुविकल्पाः, ते च द्विधा- स्थानभङ्गकाः क्रमभङ्गकाश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावत: १, अन्या भावतो न द्रव्यत: २, अन्या भावतो द्रव्यतश्च ३, अन्या 15 न भावतो नापि द्रव्यत: ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १, द्रव्यतोऽन्या न भावत: २, न द्रव्यतोऽन्या भावत: ३, अन्या न द्रव्यतो न भावत: ४ इति । तल्लक्षणं सूक्ष्म भङ्गसूक्ष्मम्, सूक्ष्मता चास्य भजनीयपदबहत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति। - [सू० ७१७] जंबुमंदरदाहिणेणं गंगासिंधूओ महानदीओ दस महानदीओ
समप्पेंति, तंजहा-जउणा, सरऊ, आती, कोसी, मही, सतद्दू, वितत्था, 20 विभासा, एरावती, चंदभागा ।
__जंबुमंदरउत्तरेणं रत्ता-रत्तवतीओ महानदीओ दस महानदीओ समप्पेंति, तंजहा-किण्हा, महाकिण्हा, नीला, महानीला, तीरा, महातीरा, इंदा जाव महाभोगा।
[सू० ७१८] जंबुद्दीवे दीवे भरहे वासे दस रायहाणीओ पन्नत्ताओ, तंजहा__ चंपा महरा वाणारसी त सावत्थि तह त सातेतं । १. गम्यमानत्वात् जे१ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org