________________
८२०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कालिकस्यास्वाध्याय: स्यादिति, उल्कादीनां चेदं स्वरूपम्दिसिदाहो छिन्नमूलो उक्क सरेहा पयासजुत्ता वा । संझाछेयावरणो जूयओ सुक्के दिणे तिन्नि ॥ [आव० नि० १३४९]
जक्खालित्तं ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां 5 करोति, धूमिका महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रेत्यर्थः, महिका प्रतीता, एतच्च द्वयमपि कार्त्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात् सर्वमप्कायभावितं करोतीति, रयउग्घाए त्ति विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते ।
अस्वाध्यायाधिकारादेवेदमाह- दसविहे ओरालिएत्यादि, औदारिकस्य 10 मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकम्, तत्रास्थि-मांस-शोणितानि प्रतीतानि,
तत्र च पञ्चेन्द्रियतिरश्चामस्वाध्यापिकं द्रव्यतोऽस्थि-मांस-शोणितानि, ग्रन्थान्तरे चौप्यधीयते, यदाह-सोणिय मंसं चम्मं अट्ठी वि य होंति चत्तारि ॥ [आव० नि० १३६५] इति, क्षेत्रत: षष्टिहस्ताभ्यन्तरे, कालत: सम्भवकालाद्यावत्तृतीया पौरुषी, मार्जारादिभि
मूषिकादिव्यापादने अहोरात्रं चेति, भावत: सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्य15 सम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत्, आर्त्तवं दिनत्रयम्,
स्त्रीजन्मनि दिनाष्टकम्, पुरुषजन्मनि दिनसप्तकम्, अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति,
तथा अशुचीनि अमेध्यानि मूत्र-पुरीषाणि तेषां सामन्तं समीपमशुचिसामन्त20 मस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य- सोणियमुत्तपुरीसे घाणालोयं परिहरेजा [आव० नि० १४१४] इति । श्मशानसामन्तं शबस्थानसमीपम् ।
चन्द्रस्य चन्द्रविमानस्योपरागो राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमानं यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा 25 वा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषं च तत: परमहोरात्रं च वर्जयन्ति,
आह च– चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं । [आव० नि० १३५१] ति, आचरितं १. धूम्राकारा जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org