SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ [सू० ७१४] दशममध्ययनं दशस्थानकम् । ८१९ स्थूलतरमित्यर्थः, इदमुक्तरूपं द्विविधं वस्तु निश्चयनयमतेन, व्यवहारतस्तु चतुर्द्धा, तत्र गुरुकम् अधोगमनस्वभावं वज्रादि, लघुकम् ऊर्ध्वगमनस्वभावं धूमादि, गुरुकलघुकं तिर्यग्गामि वायु-ज्योतिष्कविमानादि, अगुरुलघुकम् आकाशादीति, आह च भाष्यकार: निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जई दव्वं । बायरमिह गुरुलहुयं अगुरुलहु सेयं दव्वं ॥ गुरुयं लहुयं उभयं णोभयमिति वावहारियनयस्स । दव्वं लेडुं १ दीवो २ वाऊ ३ वोमं ४ जहासंखं ॥ [ विशेषाव० ६६०, ६५९] ति । शब्दपरिणामः शुभाशुभभेदाद् द्विधेति । [सू० ७१४] दसविधे अंतलिक्खिते असज्झाइए पन्नत्ते, तंजहा - उक्कावाते, 10 दिसिदाघे, गजिते, विज्जुते, निग्धाते, जूवते, जक्खालित्तते, धूमिता, महिता, युग्घ । सविधे ओरालिते असज्झातिते पन्नत्ते, तंजहा - अट्ठि, मंसे, सोणिते, असुतिसामंते, सुसाणसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उवस्सगस्स अंतो ओरालिते सरीरगे । Jain Education International 5 [टी०] अजीवपरिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरीक्षलक्षंणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं दसविहेत्यादिना सूत्रेणाह - तत्र अंतलिक्ख अन्तरीक्षम् आकाशं तत्र भवमान्तरीक्षकम्, स्वाध्यायो वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत् स्वाध्यायिकम्, तदभावोऽस्वाध्यायिकम्, तत्रोल्का आकाशजा, तस्या: पात: उल्कापात:, तथा दिशो दिशि वा दाहो दिग्दाहः, इदमुक्तं भवति- 20 एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाह इति, गर्जितं जीमूतध्वनिः, विद्युत् तडित्, निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, जूयए त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जूयगो त्ति भणितम्, सन्ध्याप्रभा - चन्द्रप्रभयोर्मिश्रत्वमिति भाव:, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे चाज्ञायमाने 25 कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति, ततः For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy