SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ८१८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे . चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टेति चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, स च स्त्र्यादिभेदात् त्रिविध इति । अजीवेत्यादि, अजीवानां पुद्गलानां परिणामोऽजीवपरिणाम:, तत्र बन्धनं पुद्गलानां परस्परं सम्बन्ध: संश्लेष इत्यर्थः, स एव परिणामो बन्धनपरिणाम:, एवं सर्वत्र, 5 बन्धनपरिणामलक्षणं चैतत् समनिद्धयाए बंधो न होइ समलुक्खयाय वि न होइ । वेमायनिद्ध-लुक्खत्तणेण बंधो उ खंधाणं ॥ [प्रज्ञापना० १९९] एतदुक्तं भवति- समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धः, 10 विषममात्रानिरूपणार्थमुच्यते निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ॥ [प्रज्ञापना० २००] इति, गतिपरिणामो द्विविध: स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न 15 सम्भाव्यते, गतिमद्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि- अभ्रङ्कषहर्म्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यत: सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घ-हस्वभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डल-वृत्त-त्र्यश्र-चतुरश्रा-ऽऽयतभेदात् पञ्चविधः, भेदपरिणाम: पञ्चधा, तत्र खण्डभेदः क्षिप्तमृत्पिण्डस्येव १, प्रतरभेदोऽभ्रपटलस्येव २, 20 अनुतटभेदो वंशस्येव ३, चूर्णभेदः चूर्णनम् ४, उत्करिकाभेदः समुकीर्यमाण प्रस्थकस्येवेति, वर्णपरिणाम: पञ्चधा, गन्धपरिणामो द्विधा, रसपरिणाम: पञ्चधा, स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद् द्रव्यं तदगुरुकलघुकम् अत्यन्तसूक्ष्मं भाषा-मन:-कर्मद्रव्यादि तदेव परिणाम: परिणाम तद्वतोरभेदात् अगुरुकलघुकपरिणाम: एतद्ग्रहणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र 25 गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद् गुरुकलघुकम् औदारिकादि १. गच्छतीति पा० जे२ ॥ २. अगुरुलघुक' जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy