________________
८१७
[सू० ७१३] दशममध्ययनं दशस्थानकम् ।
८१७ परिणामेत्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाहपरिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ॥ [ ] द्रव्यार्थनयस्येति । सत्पर्ययेण नाश: प्रादुर्भावोऽसता च पर्ययतः ।। द्रव्याणां परिणाम: प्रोक्तः खलु पर्ययनयस्य ॥ [ ] इति ।
जीवस्य परिणाम इति विग्रहः, स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मो दयान्नारकादिव्यपदेशहेतु: तत्परिणामश्चाऽऽभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह- इंदियपरिणामे त्ति, स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम 10 उक्तः, स च क्रोधादिभेदाच्चतुर्विधः । कषायपरिणामे च सति लेश्यापरिणतिर्न तु लेश्यापरिणतौ कषायपरिणति: येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटि यावद् भवति, यत उक्तम्
मुहत्तद्धं तु जहन्ना उक्कोसा होइ पुव्वकोडीओ । नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेस्साए ॥ [ ] त्ति । अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात् षोढेति । अयं च योगपरिणामे सति भवति, यस्मान्निरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीति लेश्यापरिणामानन्तरं योगपरिणाम उक्तः, स च मनोवाक्कायभेदात् विधेति । संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्त:, स च साकारानाकारभेदाद् द्विधा । सति चोपयोगपरिणामे 20 ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टानमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति । ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्त:, स च त्रिधा सम्यक्त्व-मिथ्यात्व-मिश्रभेदात् । सम्यक्त्वे सति चारित्रमिति ततस्तत्परिणाम 25 उक्तः, स च सामायिकादिभेदात् पञ्चधेति । स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org