________________
[सू० ७०५ ]
दशममध्ययनं दशस्थानकम् ।
इत्युक्तं ते चासङ्ख्येयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्च: प्रथमाध्ययनवत्, केवलं लोकस्य पञ्चास्तिकायात्मकस्य स्थितिः स्वभावः लोकस्थितिः, यदित्युद्देशे, णमिति वाक्यालङ्कारे, उद्दाइत्त त्ति अपद्राय मृत्वेत्यर्थः, तत्थेव त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः पुनः पुनः प्रत्याजायन्ते प्रत्युत्पद्यन्त 5 इत्येवमप्येका लोकस्थितिरिति १, अपिशब्द उत्तरवाक्यापेक्षया, अपि : क्वचिन्न दृश्यते ।
अथ द्वितीया— जन्नमित्यादि, सदा प्रवाहतोऽनाद्यपर्यवसितं कालं समियं त निरन्तरं पापं कर्म ज्ञानावरणादिकं सर्व्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते बध्यते इत्येवमप्येका अन्येत्यर्थः, सततकर्म्मबन्धनमिति द्वितीया २ । मोहणिजे त्ति मोहनीयं प्रधानतया भेदेन निर्द्दिष्टमिति सततमोहनीयबन्धनं तृतीया 10 ३। जीवा-ऽजीवानामजीव - जीवत्वाभावश्चतुर्थी ४। त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५। लोका-ऽलोकयोरलोक-लोकत्वेनाभवनं षष्ठी ६ । तयोरेवान्योन्याप्रवेशः सप्तमी ७|
जाव ताव लोए ताव ताव जीव त्ति यावल्लोकस्तावज्जीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः । जाव ताव जीवा ताव ताव लोए त्ति, इह 15 यावज्जीवास्तावत्तावल्लोकः, यावति यावति क्षेत्रे जीवास्तावत् क्षेत्रं लोक इति भावार्थ:, जाव तावेत्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८ । यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी ९ ।
सर्वेषु लोकान्तेषु अबद्धपासपुट्ठ त्ति बद्धा गाढश्लेषाः, पार्श्वस्पृष्टाः छुप्तमात्राः, ये न तथा तेऽबद्धपार्श्वस्पृष्टाः, रूक्षद्रव्यान्तरेणेति गम्यते, तत्सम्पर्कादजातरूक्षपरिणामा: 20 सन्त इति भावः, लोकान्ते स्वभावात् पुद्गलाः रूक्षतया क्रियन्ते रूक्षतया परिणमन्ति, अथवा लोकान्तस्वभावाद्या रूक्षता भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा ?, नैवम्, अपि तु तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्म्मपुद्गलाः, पुद्गलाश्च परमाण्वादयः, नो संचायति न शक्नुवन्ति बहिस्ताल्लोकान्ताद् गमनतायै गन्तुमिति, छान्दसत्वेन तुमर्थे 25 युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी १०, शेषं कण्ठ्यमिति । [सू० ७०५ ] दसविधे सद्दे पन्नत्ते, तंजहा
१. पापकत्वा जेसं१ खं० ॥ २. प्रत्य खं० ॥
Jain Education International
८११
For Private & Personal Use Only
www.jainelibrary.org