SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ८०८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्य: सुलभौषधयोऽर्थवृद्धिश्च ॥४॥ पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् भृगुजः । अजमृगवैश्वानरवीथिष्वर्घभयादितो लोकः ॥५॥ [ ] इति । 5 [सू० ७००] नवविधे नोकसायवेयणिज्जे कम्मे पन्नत्ते, तंजहा-इत्थिवेदे, पुरिसवेदे, णपुंसगवेदे, हासे, रती, अरई, भये, सोगे, दुगुंछा । [टी०] वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्ति द्रव्यादिसामग्र्या कर्मणामुदयादिसद्भावादिति सम्बन्धात् प्रस्तुताध्ययनावतारि कर्मस्वरूपमाह- नवविहेत्यादि, इह नोशब्द: साहचर्यार्थः, कषायैः क्रोधादिभि: 10 सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभि: सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति बुधग्रहवदन्यसंसर्गमनुवर्त्तन्ते, एवं च नोकषायतया वेद्यते यत् कर्म तन्नोकषायवेदनीयमिति । तत्र यदुदयेन स्त्रिया: पुंस्यभिलाष: पित्तोदयेन मधुराभिलाषवत् स फुफुकाग्निसमान: स्त्रीवेदः, यदुदयेन पुंस: स्त्रियामभिलाष: श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमान पुंवेदः, यदुदये 15 नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाष: पित्त-श्लेष्मणोरुदये मज्जिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति । यदुदयेन सनिमित्तमनिमित्तं वा हसति तत् कर्म हास्यम्, यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद् रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद् भयकर्म, यदुदयेन शोकरहितस्यापि 20 जीवस्याक्रन्दनादि: शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तजुगुप्साकर्मेति । [सू० ७०१] चउरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता। भुयगपरिसप्पथलचरपंचेंदियतिरिक्खजोणियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता । १. ष्वर्थभ जे२ ॥ २. दवाग्नि जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy