________________
10
[सू० ६९६-६९९] नवममध्ययनं नवस्थानकम् ।
८०७ [सू० ६९७] उसभेणं अरहो कोसलितेणं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं वितिक्कंताहिं तित्थे पवत्तिते ।
[सू० ६९८] घणदंत-लट्ठदंत-गूढदंत-सुद्धदंतदीवा णं दीवा णव णव जोयणसताई आयामविक्खंभेणं पण्णत्ता ।
[टी०] अनन्तरं विमानानामुच्चत्वमुक्तमिति कुलकरविशेषस्योच्चत्वसूत्रं 5 कुलकरसम्बन्धाद् ऋषभकुलकरसूत्रम् ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रं च, सुगमानि चैतानि, नवरं घनदन्तादय: सप्तमा अन्तरद्वीपा: ।
[सू० ६९९] सुक्कस्स णं महागहस्स णव वीहीओ पन्नत्ताओ, तंजहाहयवीही, गतवीही, णागवीही, वसभवीही, गोवीही, जरग्गववीही, अयवीही, मितवीही, वेसाणरवीही ।
[टी०] नव योजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह- सुक्कस्सेत्यादि, शुक्रस्य महाग्रहस्य नव वीथय: क्षेत्रभागा: प्रायस्त्रिभिस्त्रिभिर्नक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थम्, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा, नागवीथी चैरावणपदमिति, एतासां च लक्षणं भद्रबाहुप्रसिद्धाभिरार्याभि: क्रमेण लिख्यते- 15
भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मार्गे । रोहिण्यादि ३ रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥१॥ [ ] आग्नेयं कृत्तिका, आदित्यं पुनर्वसुरिति । .. वृषभाख्या ४ पैत्रादिः ३ श्रवणादि ३ मध्यमे जरद्वाख्या ५ । प्रोष्ठपदादि ४ चतुष्के गोवीथि ६ स्तासु मध्यफलम् ॥२॥ [ ], पैत्रं मघा, मध्यमे 20 इति मार्गे, प्रोष्ठपदा पूर्वभद्रपदा ।
अजवीथी ७ हस्तादि ४ मंगवीथी ८ चैन्द्रदेवतादि स्यात् । दक्षिणमार्गे वैश्वानर्याषाढद्वयं ब्राह्मम् ॥३॥ [ ],
इन्द्रदेवता ज्येष्ठा, ब्राह्ममभिजिदिति । १. 'द्वीपमनु जे१ खं० ।। २. सम्प्रति यो भद्रबाहुसंहिताग्रन्थ उपलभ्यते, स न वस्तुतो भद्रबाहुस्वामिकृतः।
इति इतिहासविदां मतम् । तत्र नेमा आर्या उपलभ्यन्ते । ३. वाख्याः पा० जे२ ॥ ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org