SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ८०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिळं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ [ओघनि० ७०६, पञ्चव० ८१३] इति । तथा सेजायरे त्ति शेरते यस्यां साधव: सा शय्या, तया तरति भवसागरमिति शय्यातरो वसतिदाता, तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि ४ 5 वस्त्रादिः ४ सूच्यादि ४ श्चेति, तद्ग्रहणे दोषास्त्वमी तित्थंकरपडिकुट्ठो अन्नायं उग्गमो वि य न सुज्झे । अविमुत्ती अलाघवता दुल्लहसेज्जा विउच्छेओ ॥ [पञ्चा० १७।१८] इति । राज्ञः चक्रवर्त्तिवासुदेवादे: पिण्डो राजपिण्डः । इदानीमुभयोरपि जिनयो: समानतानिगमनार्थमाह- जस्सील गाहा, यौ शील10 समाचारौ स्वभावा-ऽनुष्ठाने यस्य स यच्छीलसमाचारः, तावेव शील-समाचारौ यस्य स तथेति । [सू० ६९४] णव नक्खत्ता पच्छंभागा पन्नत्ता, तंजहाअभिती समणो धणिट्ठा, रेवति अस्सोति मिगसिरं पूसो । हत्थो चित्ता य तधा, पच्छंभागा णव हवंति ॥१४९॥ 15 [टी०] महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धानक्षत्रसूत्रं कण्ठ्यं च, नवरं पच्छंभाग त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्य यानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः, अभिई गाहा, अस्सोइ त्ति अश्विनी, मतान्तरं पुनरेवम् अस्सिणि भरणी समणो अणुराह धणि? रेवई पूसो । 20 मियसिर हत्थो चित्ता पच्छिमजोगा मुणेयव्वा ॥ [ ] इति । [सू० ६९५] आणत-पाणत-आरण-ऽच्चुतेसु कप्पेसु विमाणा णव जोयणसताई उटुंउच्चत्तेणं पन्नत्ता । [टी०] नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्रं व्यक्तम् । [सू० ६९६] विमलवाहणे णं कुलकरे णव धणुसताई उडुंउच्चत्तेणं होत्था। १. प्रवचनसारोद्धारेऽपि गाथेयं वर्तते ५१७ ।। २. अभीइ जे१ ॥ तुलना-बृहत्कल्पभाष्ये गा० ३५४०, ६३७८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy