________________
[सू० ६९३] नवममध्ययनं नवस्थानकम् ।
८०५ सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ [आव० नि० १२५८, बृहत्क० ६४२५] ति।
तथा अविद्यमानानि जिनकल्पिकविशेषापेक्षया असत्त्वादेव, स्थविरकल्पिकापेक्षया तु जीर्ण-मलिन-खण्डित-श्वेता-ऽल्पत्वादिना, चेलानि वस्त्राणि यस्मिन् स तथा, धर्म: चारित्रम्, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम्
जह जलमवगाहंतो बहुचेलो वि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संतचेला वि ॥ [विशेषाव० २६००], अत:परिसुद्धजुन्नकुच्छियथोवानिययन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होंति ॥ [विशेषाव० २५९९]
अनियतैरन्यभोगे च सति भोग्यरित्यर्थः । न च वस्त्रं संसक्ति-रागादिनिमित्ततया 10 चारित्रविघाताय, अध्यात्मशुद्धेः, शरीरा-ऽऽहारादिवदिति, न हि शरीराङ्कादिसंसक्तिर्न भवति रागो वा नोत्पद्यते, उक्तं च
अह कुणसि थुल्लवत्थाइएसु मुच्छ धुवं सरीरे वि । अक्केजदुल्लभतरे काहिसि मुच्छं विसेसेणं ॥ [विशेषाव० २५६४] ति । अक्रयणीये इत्यर्थः । अध्यात्मशुद्ध्यभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्- 15 अपरिग्गहा वि परसंतिएसु मुच्छा-कसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमणंतमजंति ॥ [विशेषाव० २५६६] इति । जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, यतोऽभ्यधायिन परोवएसवसया न य छउमत्था परोवएस पि । दिति न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥ तह सेसेहि य सव्वं कजं जइ तेहिं सव्वसाहम्मं ।। एवं च कओ तित्थं ? न चेदचेल त्ति को गाहो ? ॥ [विशेषाव० २५८८-८९] ।
अपि च, उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराऽऽहारादिवदिति । अथ कथं चेलस्य चारित्रोपकारितेति चेत, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततणपरिहारादिहेतुत्वात्, उक्तं च
25 १. शरी[रे?]यूकादि जे१ । शरीराथूतिकादि खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org