________________
८०४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे यदाह- पढमं चिय गिहि-संजयमीसं उवक्खडइ मीसं तु ॥ [पञ्चा० १३।९] इति । __ अज्झोयरए त्ति स्वार्थमूलाद्रहणे साध्वाद्यर्थं कणप्रक्षेपणमध्यवपूरकः, आह चसट्ठा मूलद्दहणे अज्झोयर होइ पक्खेवो ॥ [पञ्चा० १३।१५] इति । पूइए त्ति शुद्धमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकम्, उक्तं च- कम्मावयवसमेयं संभाविजइ जयं तु तं 5 पूइ। [पञ्चा० १३।९] त्ति । कीए त्ति द्रव्येण भावेन वा क्रीतं स्वीकृतं यत्तत् क्रीतमिति, यतोऽभ्यधायि– दव्वाइएहिं किणणं साहूणट्ठाए कीयं तु ॥ [पञ्चा० १३।११] इति । पामिच्चं अपमित्यकं साध्वर्थमुद्धारगृहीतम्, यतोऽभिहितम्- पामिच्चं साहूणं अट्ठा उच्छिंदिउं दियावेइ। [पञ्चा० १३।१२] इति । आच्छेद्यं बलाद् भृत्यादिसत्कमाच्छिद्य यत् स्वामी साधवे
ददाति, भणितं च- अच्छेजं चाच्छिंदिय जं सामी भिच्चमाईणं ॥ [पञ्चा० १३।१४] ति। 10 अनिसृष्टं साधारणं बहूनामेकादिना अननुज्ञातं दीयमानम्, आह च- अणिसटुं सामन्नं
गोट्ठियमाईण दयउ एगस्स । [पञ्चा० १३।१५] इति । अभ्याहृतं स्वग्रामादिभ्य आहृत्य यद्ददाति, यतोऽवाचि- सग्गामपरग्गामा जमाणियं अभिहडं तयं होइ । [पञ्चा० १३।१३] इति। एषां शब्दार्थः प्राय: प्रकट एवेति ।
कान्तारभक्तादय आधाकादिभेदा एव, तत्र कान्तारम् अटवी, तत्र भक्तं भोजनं 15 यत् साध्वाद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो रोगोपशान्तये यद्ददाति ग्लानेभ्यो
वा यद् दीयते । तथा वईलिका मेघाडम्बरम्, तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति । प्राघुणका:
आगन्तुका: भिक्षुका एव, तदर्थं यद्भक्तं तत्तथा, प्राघूर्णको वा गृही स यद्दापयति तदर्थं
संस्कृत्य तत्तथा । तथा मूलं पुनर्नवादीनाम्, तस्य भोजनं तदेव वा भोजनम्, भुज्यत 20 इति भोजनमिति कृत्वा, कन्दः सूरणादिः, फलं त्रपुष्यादि, बीजं दाडिमादीनाम्, हरितं
मधुरतृणादिविशेष:, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति । पंचमहव्वइए इत्यादि, प्रथम-पश्चिमतीर्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन उभयसन्ध्यमावश्यकेन य: स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तं च१. मीसगं तु जे२ ॥ २. तथा नास्ति पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org