________________
[सू० ६९३] नवममध्ययनं नवस्थानकम् ।
८०१ इव दुद्धरिसे परीषहादिभिरनभिभवनीय इत्यर्थः, नगराया चेव त्ति मंदरो इव अप्पकंपे मेरुरिवानुकूलाद्युपसर्गेरविचलितसत्त्वः, सागरमक्खोहे त्ति मकारोऽलाक्षणिकः सागरवदक्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रं च सागरो इव गंभीरे हर्षशोकादिभिरक्षोभितत्वादिति, चंदे त्ति चंदे इव सोमलेसे अनुपतापकारिपरिणाम:, सूरे त्ति सूरे इव दित्ततेए, दीप्ततेजा द्रव्यत: शरीरदीप्त्या भावतो ज्ञानेन, कणगे त्ति 5 जच्चकणगं पिव जायरूवे, जातं लब्धं रूपं स्वरूपं रागादिकुद्रव्यविरहाद् येन स तथा, वसुंधरा चेव त्ति वसुंधरा इव सव्वफासविसहे, स्पर्शाः शीतोष्णादयोऽनुकूलेतरा:, सुहुयहुए त्ति व्याख्यातमेवेति ।
नत्थीत्यादि, नास्ति तस्य भगवतो महापद्मस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धः स्नेहो भविष्यतीति, अंडए इ व त्ति अण्डजो हंसादिः ममायमित्युल्लेखेन वा प्रतिबन्धो 10 भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्ध: स्यादिति, अथवाऽण्डजं पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्ध: स्यात्, अथवा पोतको बालक इति वा, अथवा पोतकं वस्त्रमिति वा प्रतिबन्ध: स्यात्, आहारेऽपि च विशुद्धे सरागसंयमवत: प्रतिबन्ध: स्यादिति दर्शयति- उग्गहिए इ व त्ति अवगृहीतं परिवेषणार्थमुत्पाटितं प्रगृहीतं भोजनार्थमुत्पाटितमिति, अथवा 15 अवग्रहिकमिति अवग्रहोऽस्यास्तीति वसति-पीठफलकादि, औपग्रहिकं वा दण्डकादिकमुपधिजातम्, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकम् औधिकमुपकरणं पात्रादीति, अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयमिकारस्त्वागम इति ।
जन्नं ति यां यां दिशं णमिति वाक्यालङ्कारे नुशब्दो वा अयं तदर्थ एव, इच्छति तदा विहर्तुमिति शेष:, तां तां दिशं स विहरिष्यतीति सम्बन्धः, सप्तम्यर्था वेयं द्वितीया 20 तस्यां तस्यामित्यर्थः, शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन वा अणुप्पग्गंथे त्ति अनुरूपतया औचित्येन विरतेन त्वपुण्योदयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थ: अपेर्तृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा, अथवा अणुप्प त्ति अनl: अनर्पणीयः अढौकनीय: परेषामाध्यात्मिकत्वात् ग्रन्थवत् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति । भावेमाणे त्ति वासयन्नित्यर्थः । 25 अणुत्तरेणं ति नास्त्युत्तरं प्रधानमस्मादित्यनुत्तरं तेन, एवमिति अनुत्तरेणेति १. अंडए ए व त्ति जे१मध्ये नास्ति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org