________________
८०२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, आलयेन वसत्या विहारेणैकरात्रादिना, आर्जवादय: क्रमेण माया-मान-गौरव-क्रोध-लोभनिग्रहाः, गुप्तिर्मन:प्रभृतीनाम्, तथा सत्यं च द्वितीयं महाव्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादयः सुचरितं सुष्ठवासेवितं सोयवियं ति प्राकृतत्वाच्छौचं च तृतीयं महाव्रतम्, अथवा विय त्ति विच्च विज्ञानमिति 5 द्वन्द्वस्ततश्चैतान्येवैत एव वा फल त्ति फलप्रधान: परिनिर्वाणमार्गो निर्वृतिनगरीपथ: सत्यादिपरिनिर्वाणमार्गस्तेन । ध्यानयोः शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका, तस्यां वर्त्तमानस्य, शुक्लस्य द्वितीयाद्रेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात्, अनुत्तरं सर्वोत्तमत्वात्, निर्व्याघातं
धरणीधरादिभिरप्रतिहतत्वात्, निरावरणं सर्वावरणापगमात्, कृत्स्नं सर्वार्थविषयत्वात्, 10 प्रतिपूर्ण स्वरूपत: पौर्णमासीचन्द्रवत्, केवलमसहायमत एव वरं ज्ञानदर्शनं प्रतीतं
केवलवरज्ञानदर्शनमिति । अरह त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात्, जिनो रागादिजेतृत्वात्, केवली परिपूर्णज्ञानादित्रययोगात्, सर्वज्ञः सर्वविशेषार्थबोधात्, सर्वदर्शी सकलसामान्यार्थावबोधात्, ततश्च सह देवैश्च वैमानिक-ज्योतिष्कलक्षणैर्मत्यैश्च
मनुजैरसुरैश्च भवनपति-व्यन्तरलक्षणैर्यः स सदेवमासुरस्तस्य, लोकः 15 पञ्चास्तिकायात्मकस्तस्य, परियागं ति जातावेकवचनमिति पर्यायान् विचित्रपरिणामान्
जाणइ पासइ त्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाह- सव्वलोए इत्यादि । चयणं ति वैमानिक-ज्योतिष्कमरणम्, उपपातं नारक-देवानां जन्म, तर्क वितर्कं विमर्शम्, मन: चित्तम्, मनसि भवं मानसिकं चिन्तितं वस्तु, भुक्तमोदनादि, कृतं घटादि, प्रतिषेवितम् 20 आसेवितं प्राणिवधादि, आविष्कर्म प्रकटक्रियाम्, रहःकर्म विजनव्यापारम्,
ज्ञास्यतीत्यनुवर्तते, तथा अरहा न विद्यते रहो विजनं यस्य सर्वज्ञत्वादसावरहाः, अत एव रहस्यस्य प्रच्छन्नस्याभावोऽरहस्यम्, तद् भजत इत्यरहस्यभागी तं तं कालम् आश्रित्येति शेष:, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थः, मणसवयसकाइए त्ति मानसश्च वाचसश्च कायिकश्च मानस-वाचस-कायिकं तत्र योगे व्यापारे, हस्वत्वं 25 च प्राकृतत्वादिति, वर्तमानानाम्, व्यवस्थितानां सर्वभावान् सर्वपरिणामान् जानन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org