________________
८००
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा, छिन्नगंथे छिन्नो ग्रन्थो धन-धान्यादिस्तत्प्रतिबन्धो वा येन स तथा, क्वचित् किण्णगंथे इति पाठस्तत्र कीर्णः क्षिप्त:, निरुवलेवे द्रव्यतो निर्मलदेहत्वात् भावतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयतेकंसपातीव मुक्कतोये कांस्यपात्रीव कांस्यभाजनविशेष इव मुक्तं त्यक्तं न लग्नमित्यर्थः, 5 तोयमिव बन्धहेतुत्वात्तोयं स्नेहो येन स मुक्ततोयः, यथा भावनायामाचाराङ्गद्वितीय
श्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियदूरं यावदित्याहजाव सुहुयेत्यादि,सुष्ठ हुतं क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः, स चासौ हुताशनश्च वह्निरिति सुहुतहुताशनस्तद्वत्तेजसा ज्ञानरूपेण तपोरूपेण वा ज्वलन् दीप्यमानः । ___ अतिदिष्टपदानां सङ्ग्रहं गाथाभ्यामाह- कंसे गाहा, कुंजर गाहा, कंसे त्ति 10 कंसपाईव मुक्कतोये, संखे त्ति संखे इव निरङ्गणे रङ्गणं रागाद्युपरञ्जनम्, तस्मानिर्गत
इत्यर्थः, जीवे त्ति जीव इव अप्पडिहयगई संयमे गति: प्रवृत्तिर्न हन्यते अस्य कथञ्चिदिति भावः, गगणे त्ति गयणमिव निरालंबणे न कुल-ग्रामाद्यालम्बन इति भाव:, वाये य त्ति वायुरिव अप्पडिबद्धे ग्रामादिष्वेकरात्रादिवासात्, सारयसलिले
त्ति सारयसलिलं व सुद्धहियए अकलुषमनस्त्वात्, पुक्खरपत्ते त्ति पुक्खरपत्तं पिव 15 निरुवलेवे प्रतीतम्, कुम्मे त्ति कुम्मो इव गुत्तिदिए, कच्छपो हि कदाचिदवयवपञ्चकेन
गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति, विहगे त्ति विहग इव विप्पमुक्के मुक्तपरिच्छदत्वादनियतवासाच्चेति, खग्गे य त्ति खग्गिविसाणं व एगजाए, खड्ग: आटव्यो जीवस्तस्य विषाणं शृङ्गं तदेकमेव भवति तद्वदेकजात: एकभूतो रागादिसहाय
वैकल्यादिति, भारंडे त्ति भारंडपक्खीव अप्पमत्ते भारण्डपक्षिणो: किलैकं शरीरं 20 पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमेति ॥१॥
कुंजरे त्ति कुंजरो इव सोंडीरे हस्तीव शूरः कषायादिरिपून प्रति, वसभे त्ति वसभो इव जायथामे गौरिवोत्पन्नबल:, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, सीहे त्ति सीहो १. सम्प्रति आचाराङ्गसूत्रे पाठोऽयं नैवोपलभ्यते । किन्तु आचाराङ्गचूर्णिकृतां समक्षं पाठोऽयमासीदेव, अस्माभिः
सम्पादितस्य संशोधितस्य चाचाराङ्गसूत्रस्य महावीरजैनविद्यालयेन विक्रमसं० २०३३ मध्ये प्रकाशितस्य ७७१ तमसूत्रोपरि सप्तमे टिप्पने विस्तरेणास्माभिरावेदितमस्ति एतत् । जिज्ञासुभिः तत्रैव द्रष्टव्यम् ॥ २. पुक्खरपत्तं व नि जे१ ॥ ३. पासं० विना- विहगो त्ति जे१ पामू० । विहग त्ति खंमू०, विहगि त्ति खंसं० जे२॥ ४. भारुड जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org