________________
[सू० ६९३] नवममध्ययनं नवस्थानकम् ।
७९९ महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तरा: । पुणरवि त्ति महत्तराभ्यनुज्ञानानन्तरं लोकान्ते लोकाग्रलक्षणे सिद्धस्थाने भवा लौकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनः, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति । जीतकल्प: आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिका:, आचरितमेव तेषामिदम्, न तु तैस्तीर्थकरः प्रतिबोध्यते, 5 स्वयंबुद्धत्वाद्भगवत इति । ताहिं ति ताभिर्विवक्षिताभि: वग्गूहिं ति वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः, इष्टाभिः इष्यन्ते स्म या:, कान्ताभिः कमनीयाभिः, प्रियाभिः प्रेमोत्पादिकाभिः, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते- मनोज्ञाभिः शुभस्वरूपाभिः, मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- मणामाहिं ति मन: अमन्ति गच्छन्ति यास्ता: तथा, ताभिः, उदारेण उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन 10 वा युक्तत्वादुदाराभिः, कल्यम् आरोग्यम् अणन्ति शब्दयन्तीति कल्याणा:, ताभिः, शिवस्य उपद्रवाभावस्य सूचकत्वाच्छिवाभिः, धनं लभन्ते धने वा साध्व्यो धन्याः, ताभिः, मङ्गले दुरितक्षये साध्व्यो मङ्गल्याः, ताभिः, सह श्रिया वचनार्थशोभया यास्ताः सश्रीकाः, ताभिः, वाग्भिरिति सम्बन्धितम्, अभिनन्द्यमान: समुल्लास्यमान:, बहिय त्ति नगराद् बहिस्तादिति ।
इतो वाचनान्तरमनुसृत्य लिख्यते- साइरेगाई ति अर्द्धसप्तमैर्मासैादश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्मवर्जनतः, त्यक्ते देहे परीषहादिसहनतः, तथा सक्ष्यति उत्पत्स्यमानेषूपसर्गेषु भयाभावतः, क्षमिष्यत्युत्पन्नेषु क्रोधाभावत:, तितिक्षिष्यति दैन्याभावत:, अध्यासिष्यते अविचलतयेति, जाव गुत्ते त्ति करणादिदं दृश्यम्एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए भाण्डमात्राया आदाने निक्षेपे च 20 समित इत्यर्थः, उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिए, खेलो निष्ठीवनम्, सिंघाणो नासिकाश्लेष्मा, जल्लो मल:, मणगुत्ते वइगुत्ते कायगुत्ते, गुत्ते गुप्तत्वाद् त्रिगुप्तात्मेत्यर्थः, गुत्तिदिए स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, गुत्तबंभचारी गुप्तं नवभिर्ब्रह्मचर्यगुप्तिभी रक्षितं ब्रह्म मैथुनविरमणं चरतीति विग्रहः, तथा अममे अविद्यमान ममे'त्यभिलापो निरनुषङ्गत्वात्, अकिंचणे नास्ति किञ्चनं द्रव्यं यस्य स 25 १. लोका' पा० जे२ ॥ २. गुत्ते त्ति गुप्त' जे१ ॥ ३. किंचणं पा० जे२ ।.
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org