SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ७९८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे एवाऽकण्टकम्, एवं शत्रवोऽपि, नवरं शत्रवस्तेभ्योऽन्ये, पराइयसत्तुं विजयवत्त्वादिति, ववगयदुब्भिक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसन्नडिंब-डमरम्, डिम्बानि विघ्ना डमराणि कुमारादिव्युत्थानादीनि, रजं पसासेमाणे त्ति पालयन् विहरिस्सइ त्ति। 5 दो देवा महिड्डिया इत्यत्र यावत्करणात् महज्जुइया महाणुभागा महायसा महाबलेति दृश्यम्, सेणाकम्मं ति सेनायाः सैन्यस्य कर्म व्यापार: शत्रुसाधनलक्षण: सेनाविषयं वा कर्म इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च उत्तरयक्षनिकायेन्द्रः । बहवे राईसरेत्यादि, राजा महामाण्डलिकः, ईश्वरो युवराजो माण्डलिकोऽमात्यो वा, अन्ये तु व्याचक्षते- अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर 10 इति, तलवर: परितुष्टनरपतिप्रदत्तपट्टबन्धभूषितः, माडम्बिकः छिन्नमडम्बाधिपः, कौटुम्बिकः कतिपयकुटुम्बप्रभुः, इभ्य: अर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्ग: पुरज्येष्ठो वणिक्, सेनापति: नृपतिनिरूपितो हस्त्यश्व -रथ-पदातिसमुदायलक्षणाया: सेनाया: प्रभुरित्यर्थः, सार्थवाहकः सार्थनायकः, 15 एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृति: आदिर्येषां ते तथा । देवसेणे त्ति देवावेव सेना यस्य देवाधिष्ठिता वा सेना यस्य स देवसेन इति, देवसेणातीति देवसेन इत्येवंरूपम्। सेतेत्यादि, श्रेयान् अतिप्रशस्य: श्वेतो वा, कीदृगित्याह- शङ्खतलेन कम्बुरूपेण विमलेन पङ्कादिरहितेन सन्निकाशः सङ्काशः सदृशो य: स शङ्खतल विमलसन्निकाशः, दुरूढे त्ति आरूढ: समाणे त्ति सन् अतियास्यति प्रवेक्ष्यति 20 निर्यास्यति निर्गमिष्यतीति, क्वचिद्वर्त्तमाननिर्देशो दृश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र । गुरुमयहरएहिं ति गुर्वो: मातापित्रोर्महत्तरा: पूज्या: अथवा गौरवार्हत्वेन गुरवो १. महड्डिया जे१ ॥ २. त्ति जे१ खं० पामू० ॥ ३. पूर्णभद्रश्च किंनरनिकायेन्द्रः माणिभद्रश्च किंपुरुषनिकायेन्द्रः जे१ ।। ४. मंडलिकः ईश्वरो युवराजो माण्डलिको जे१ खं० । 'मंडलिकः ईश्वरो युवराजो मंडलिको पा० जे२ । दृश्यतां सू० १५८ टीका । अनुयोगद्वार० सू० २० टीका ॥ ५. अन्ये च व्या० पा० जे २ । द्दश्यताम् अनुयोगद्वार० सू० २० चूर्णिः ।। ६ °सेणो जे१ खं० ॥ ७. संकाश: नास्ति जे१ पामू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy