________________
नवममध्ययनं नवस्थानकम् ।
[सू० ६९३]
हिमवांश्च वर्षधरपर्वतः, महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकारः, महामलयः स च मन्दरश्च मेरुः, महेन्द्रश्च शक्रादिः, ते इव सारः प्रधानो यः स तथा । अच्छंतविसुद्धदीहरायकुलवंसप्पसूए, अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च पुरुषपरम्परापेक्षया यो राज्ञां भूपालानां कुललक्षणो वंशः सन्तानस्तत्र प्रसूतो जातो यः स तथा । निरंतरं रायलक्खणविराइयंगुवंगे नैरन्तर्येण राजलक्षणै: 5 चक्र-स्वस्तिकादिभिर्विराजितान्यङ्गानि शिरः प्रभृतीन्युपाङ्गानि च अङ्गुल्यादीनि यस्य स तथा । बहुजणबहुमाणपूड़ए सव्वगुणसमिद्धे खत्तिए मुदिए त्ति प्रतीतम् । मुद्धाभिसित् पितृ-पितामहादिभिर्मूर्द्धन्यभिषिक्तो यः स तथा । माउपिउसुजाए सुपुत्रो विनीतत्वादिनेत्यर्थः, दयप्पत्ते दयाप्राप्तो दयाकारीत्यर्थः, सीमंकरे मर्यादाकारी, सीमंधरे मर्यादां पूर्वपुरुषकृतां धारयति नात्मनापि लोपयति यः स तथा, खेमंकरे नोपद्रवकारी, 10 खेमंधरे क्षेमं धारयत्यन्यकृतमिति यः स तथा, माणुस्सिंदे, जणवयपिया लोकपिता वत्सलत्वात्, जणवयपुरोहिए जनपदस्य पुरोधाः पुरोहितः, शान्तिकारीत्यर्थः, सेतुकरे सेतुं मार्गमापद्गतानां निस्तरणोपायं करोति यः स तथा, केतुकरे चिह्नकरः अद्भुतकारित्वादिति । नरपवरे नरै: प्रवरः नरा वा प्रवरा यस्य स तथा पुरिसवरे पुरुषप्रधान:, पुरिससीहे शौर्याद्यधिकतया, पुरिसआसीविसे शापसमर्थत्वात्, 15 पुरिसपुंडरीए पूज्यत्वात् सेव्यत्वाच्च, पुरिसवरगंधहत्थी शेषराजगजविजयित्वात्, अड्ढे धनेश्वरत्वात्, दित्ते दर्पवत्त्वात्, वित्ते प्रसिद्धत्वात्, वित्थिन्नविपुलभवणसयणासणजाणवाहणान्ने पूर्ववत्, बहुधणबहुजायरूवरयए, आओगपओगसंपउत्ते, आयोगप्रयोगा द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः प्रवर्त्तिता येन स तथा, विच्छड्डियपउरभत्तपाणे, बहुदासीदासगोमहिसगवेलगप्पभूए, 20 पडिपुन्नजंत- कोस- कोट्ठागारा - ऽऽयुहागारे, यन्त्राणि जलयन्त्रादीनि, कोश: श्रीगृहम्, कोष्ठागारं धान्यागारम्, आयुधागारं प्रहरणकोशः, बलवं हस्त्यादिसैन्ययुक्तः, दुब्बलपच्चामित्ते अबलप्रातिवेशिकराजः । ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं एवं ओहयसत्तु ५, उपहता राज्यापहारात् निहता मारणात् मलिता मानभञ्जनादुद्धृता देशनिष्काशनात् कण्टका दायादा यत्र राज्ये तत्तथा, अत 25
Jain Education International
For Private & Personal Use Only
७९७
www.jainelibrary.org