SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ७९६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्ठ जातानि सर्वाण्यङ्गानि शिर:प्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा, तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम्, तथा शशिवत् सौम्याकारं कान्तं कमनीयं प्रियं प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनः, तम्, अत एव 5 सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः । जं रयणिं च त्ति यस्यां च रजन्यां तं रयणिं च त्ति तस्यां रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणम् । से दारए पयाहिइ त्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, सभिंतरबाहिरए त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वनगर इत्यर्थः, विंशत्या पलशतैर्भारो भवति अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः 10 प्रसिद्धः, अग्रं परिमाणम्, ततो भार एवाग्रं भाराग्रम्, तेन भाराग्रेण भाराग्रशो भारपरिमाणतः, एवं कुम्भाग्रशः, नवरं कुम्भ आढकषष्ट्यादिप्रमाण:, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, जाव त्ति करणात् निव्वत्ते असुइजायकम्मकरणे संपत्ते त्ति दृश्यम्, तत्र निर्वृत्ते निर्वर्तित इत्यर्थः, पाठान्तरत: निवत्ते वा निवृत्ते उपरते अशुचीनाम् अमेध्यानां जातकर्मणां प्रसवव्यापाराणां करणे विधाने, सम्प्राप्ते 15 आगते बारसाहदिवसे त्ति द्वादशानां पूरणो द्वादश: स एवाख्या यस्य स द्वादशाख्य: स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, अयं ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नम् एयारूवं ति एतदेव रूपं स्वभावो यस्य न मात्रयापि प्रकारान्तरापन्नमित्यर्थः, किं तत् ? नामधेयं प्रशस्तं नाम, किंविधम् ? गौणं न पारिभाषिकम्, गौणमित्यमुख्यमपि स्यादित्याह20 गुणनिप्फन्नं ति गुणानाश्रित्य पद्मवर्षादीन् निष्पन्नं गुणनिष्पन्नमित्यक्षरघटना, महापउमे महापउमे त्ति तत्पित्रो: पर्यालोचनाभिलापानुकरणम् । तए णं ति पर्यालोचनानन्तरं महापउम इति महापद्म इत्येवंरूपम् ।। साइरेगट्ठवासजायगं ति सातिरेकाणि साधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा, तम् । रायवन्नओ त्ति राजवर्णको वक्तव्यः, स चायम्- महया हिमवंत25 महंतमलय-मंदर-महिंदसारे महता गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया १. सर्वत्र नगर पा० जे२ ॥ २. प्रमाणं पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy