________________
नवममध्ययनं नवस्थानकम् ।
[सू० ६९३]
"
प्रकर्षवतीम्, कटुकां कटुकरसोत्पादितां कर्कशां कर्कशस्पर्शसम्पादिताम्, अथवा कटुकद्रव्यमिव कटुकामनिष्टाम्, एवं कर्कशामपि चण्डां वेगवतीं झटित्येव मूर्च्छत्पादिकाम्, वेदना हि द्विविधा - सुखा दुःखा चेति, सुखाव्यवच्छेदार्थं दुःखामित्याह, दुर्गां पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्याम्, दिव्यां देवनिर्मिताम्, किं बहुना ? दुरधिसहां सोढुमशक्यामिति ।
इहैव जम्बूद्वीपे, नासङ्ख्येयतमे, पुमत्ताए त्ति पुंस्तया पच्चायाहि त्ति प्रत्याजनिष्यते, बहुपडिपुन्नाणं ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ कोमलौ पाणी च पादौ च यस्य स सुकुमारपाणिपादः, तम्, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा पवित्राणि पञ्च इन्द्रियाणि करणानि यस्मिंस्तत्तथा, अहीन - 10 मङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रतिपूर्णपञ्चेन्द्रियशरीरः अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरो वा, तम्, तथा लक्षणं पुरुषलक्षणं शास्त्राभिहितम् अस्थिष्वर्थाः सुखं मांसे [ ] इत्यादि, मानोन्मानादिकं वा, व्यञ्जनं मष - तिलकादि, गुणाः सौभाग्यादय:, अथवा लक्षण-व्यञ्जनयोर्ये गुणास्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओ त्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा 15 उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपेतः, तम्, लक्षण-व्यञ्जनस्वरूपमिदमुक्तम्
माम्माणपमाणादि लक्खणं वंजणं तु मसमाई । सहजं व लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥ [
ति ।
लक्षणमेवाधिकृत्य विशेषणान्तरमाह- माणुम्माणेत्यादि, तत्र मानं 20 जलद्रोणप्रमाणता, सा ह्येवम् - जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुष : मानोपपन्न इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणम् आत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं चजलदोण १ मद्धभारं २ समुहाई समुस्सिओ व जो नव उ ३ ।
ति ।
माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥ [
१. °याहि इति जे१ खं० ॥ २. “शकन्ध्वादिषु पररूपं वाच्यम्” - पा० वार्तिके पा० सि० ७९ || १ | १ | ६४ ॥
Jain Education International
For Private & Personal Use Only
७९५
5
25
www.jainelibrary.org