________________
[सू० ६९०-६९१] नवममध्ययनं नवस्थानकम् ।
७८५ गन्धिलेषु नव नव कूटानि प्रागिव दृश्यानीति । एवं सव्वेसु इत्यादिना कूटानां सामान्य लक्षणमुक्तमिति, विशेषार्थिना तु जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि ऐरवतकूटानि च व्याख्येयानीति ।
[सू० ६९०] पासे णं अरहा पुरिसादाणिए वजरिसभणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीओ उटुंउच्चत्तेणं होत्था ।
[सू० ६९१] समणस्स भगवतो महावीरस्स तित्थम्मि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिवत्तिते, तंजहा-सेणितेणं, सुपासेणं, उदातिणा, पोट्टिलेणं अणगारेणं, दढाउणा, संखेणं, सततेणं, सुलसाते सावियाते, रेवतीते ।
[टी०] इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणीं जिनवक्तव्यतामाह- 10 पासेत्यादि सूत्रद्वयं कण्ठ्यम्, नवरं तित्थगरनाम त्ति तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रं च कर्मविशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति, अथवा तीर्थकरनामेति गोत्रम् अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति । श्रेणिको राजा प्रसिद्धस्तेन १ । एवं सुपार्थो भगवतो वर्द्धमानस्य पितृव्यः २ । उदायी कोणिकपुत्रः, य: कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरं न्यवीविशत् यश्च स्वभवनस्य 15 विविक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरुं तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुसरन् सामायिक-पौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते, एकदा च निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवास: सुखप्रसुप्तः कङ्काय:कर्तिकाकण्ठकर्त्तनेन विनाशित इति ३ ।
पोटिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरवासी भद्राभिधान- 20 सार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्न: महाविदेहात् सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्य: सम्भाव्यत इति ४, दृढायुप्रतीत: ५। १. पुन: पम्हादिविजयेषु षोडशस्वतिदिशति एवं सव्वेसु इति पाठोऽत्र जे२ मध्ये एव वर्तते ॥ २. सू०
४।१०३।१-६ ।। ३. 'नामे त्ति जे१ खं० पा० ।। ४. रूंस्तत्प पा० । रुस्तत्प जे२ ॥ ५. निर्धारित जे१ खं० पा० । (निरित?) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org