SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नंदणे त्ति नन्दनवनं मैरौ प्रथममेखलायाम्, तत्र नव कूटानि, नंदण गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि, विदिक्षु चतुश्चतुःपुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात् सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूटम्, तत्र देवी मेघङ्करा १, तथा पूर्वसिद्धायतनादेव दक्षिणतो 5 दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटम्, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमम्, देव्यस्तु निषधकूटे सुमेघा, हैमवतकूटे मेघमालिनी, रजतकूटे सुवच्छा, रुचककूटे वच्छमित्रा, सागरचित्रकूटे वैरसेना, वैरकूटे बलाहकेति, बलकूटं मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति । मालवंते इत्यादि, सिद्धे गाहा, माल्यवान् पूर्वोत्तरो गजदन्तपर्वतः, तत्र 10 सिद्धायतनकूटं मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगा देवी, रजतकूटे भोगमालिनी देवी, शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्पर्वतस्य नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवर्त्ति, हरिकूटं नन्दनवनवर्त्ति बलकूटं च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छादिविजयवैताढ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरम् एवं जाव पुक्खलावइम्मीत्यादौ 15 यावत्करणान्महाकच्छ- कच्छावती - आवर्त्त-नङ्गलावर्त्त पुष्कलेषु सुकच्छवद् वैताढ्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति । एवं वच्छे त्ति शीताया दक्षिणे समुद्रासन्ने, एवं जाव मंगलावइम्मीत्यत्र यावत्करणात् सुवच्छ-महावच्छ-वच्छावती-रम्य - रम्यक - रमणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववत्, नवरं दिक्कुमार्यौ 20 वारिसेना-बलाहकाभिधाने क्रमेण कनककूट - स्वस्तिककूटयोरिति । पम्हे त्ति शीतोदाया दक्षिणेन विद्युत्प्रभाभिधानगजदन्तकप्रत्यासन्नविजये, जाव सलिलावइम्मीत्यत्र यावत्करणात् सुपक्ष्म-महापक्ष्म- पक्ष्मावती - शङ्ख- नलिन- कुमुदेषु प्रागिव नव नव कूटानि वाच्यानि । एवमित्युक्ताभिलापेन वप्पे त्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये, जाव गंधिलावइम्मीत्यत्र यावत्करणात् सुवप्र - महावप्र-वप्रावती- वल्गु-सुवल्गु१. मेरोः पासं० जे२ ॥ २. पूर्वादिषु जे१ खं० ॥ ३ यावत् महाकच्छा- कच्छावती जे१ ॥ ४. मंगला पा० || ७८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy