SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ७८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे शङ्ख-शतको श्रावस्तीश्रावको, ययोरीदृशी वक्तव्यता- किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्याति स्म- यथा भो देवानांप्रियाः! विपुलमशनाद्युपस्कारयत ततस्तत् परिभुञ्जाना: पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, 5 ततस्ते तत् प्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्- न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तुम्, श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादे: शान्तवेषस्य विहर्तुम्, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः, शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शो पुष्कली नाम श्रमणोपासक: 10 शतक इत्यपरनामा शङ्खस्याकारणार्थं तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, तत: पौषधशालायां स विवेश, ईर्यापैथिकी प्रतिचक्राम, शङ्खमभ्युवाच यदुतोपस्कृतं तदशनादि तद् गच्छाम: श्रावकसमवायम्, भुज्महे तदशनादि, प्रतिजागृम: पाक्षिकपौषधम्, तत उवाच शङ्ख:- अहं हि पौषधिको नागमिष्यामीति, तत: पुष्कली गत्वा श्रावकाणां तत् निविवेद, ते तु तदनु बुभुजिरे, 15 शङ्खस्तु प्रात: पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्मं च श्रुत्वा शङ्खान्तिकं गत्वा एवमूचुः- सुष्ठ त्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान भगवान जगाद- मा भो यूयं शङ्ख हीलयत, शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्मा दृढधा च, तथा सुदृष्टिजागरिकां जागरित इत्यादि ६-७ । 20 सुलसा राजगृहे प्रसेनजितो राज्ञ: सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते- किल तया पुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः अन्यां परिणयेति, स च यस्तव पुत्रस्तेन मे प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान्, इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थं कोऽपि देव: साधुरूपेणागतस्तं १. तत् नास्ति जे१ खं० ॥ २. पासं० विना- पथिकां ॥१,२, खं० पामू० ॥ ३. न गमि जे१ खं०॥ ४. प्रियधर्मा च दृढधर्मा च जे१ खं० ॥ ५. स्तेनेह प्रिये प्रयोजन पा० जे२ ॥ ६. तत् नास्ति जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy