SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ७८० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे एतेसि णं णवण्हं गेवेजविमाणपत्थडाणं णव नामधिजा पन्नत्ता, तंजहाभद्दे सुभद्दे सुजाते, सोमणसे पितदरिसणे । सुदंसणे अमोहे य, सुप्पबुद्धे जसोधरे ॥१३४॥ ९॥ [टी०] नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति 5 देवगतिगतवस्तुस्तोममभिधित्सुः ईसाणस्सेत्यादि सूत्रनवकमाह, सुगमं चेदम्, नवरं नव पलिओवमाई ति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च सपरिग्गहेयराणं सोहम्मीसाण पलिय १ साहीयं २ । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥ [बृहत्सं० १७] ति । सारस्स गाहा, सारस्वताः १, आदित्याः २, वह्नयः ३, वरुणाः ४, गर्दतोयाः 10 ५, तुषिताः ६, अव्याबाधाः ७, आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्टास्तु कृष्णराजिमध्यभागवर्तिनि रिष्टाभविमानप्रस्तटे परिवसन्तीति । - [सू० ६८६] नवविधे आउपरिणामे पन्नत्ते, तंजहा-गतिपरिणामे, गतिबंधणपरिणामे, ठितिपरिणामे, ठितिबंधणपरिणामे, उढुंगारवपरिणामे, अधेगारवपरिणामे, तिरितंगारवपरिणामे, दीहंगारवपरिणामे, रहस्संगारव15 परिणामे। [टी०] अनन्तरं ग्रैवेयकविमानानि उक्तानि, तद्वासिनश्चायुष्मन्तो भवन्तीत्यायु:परिणामभेदानाह– नवविहे इत्यादि, आउपरिणामे त्ति आयुष: कर्मप्रकृतिविशेषस्य परिणाम: स्वभाव: शक्ति: धर्म इत्यायु:परिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणाम: १, तथा येनायु:स्वभावेन 20 प्रतिनियतगतिकर्मबन्धो भवति यथा नारकायु:स्वभावेन मनुष्य-तिर्यग्गतिनामकर्म बध्नाति न देव-नरकगतिनामकम्र्मेति स गतिबन्धनपरिणाम: २, तथा आयुषो या अन्तर्मुहूर्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणाम: ३, तथा येन पूर्वभवायु:परिणामेन परभवायुषो नियतां स्थितिं बध्नाति स स्थितिबन्धनपरिणाम:, यथा तिर्यगायु:परिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४, 25 तथा येनायु:स्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षण: परिणामो भवति स १. आउयपरि' जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy