________________
७७८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे वत्थु त्ति आचार्यादिपुरुषवस्तूनि, पुरुषा इत्यर्थः, संखाणे सिलोगो, सङ्ख्यानं गणितं तद्योगात् पुरुषोऽपि तथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं चूडामणिप्रभृति, कायिकं शारीरिकम् इडा-पिङ्गलादि प्राणतत्त्वमित्यर्थः, पुराणो वृद्धः, स च चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा शास्त्रविशेष: 5 तज्ज्ञो निपुणप्रायो भवति, पारिहत्थिए त्ति प्रकृत्यैव दक्ष: सर्वप्रयोजनानामकालहीनतया कर्तेति, तथा परः प्रकृष्टः पण्डित: परपण्डितो बहुशास्त्रज्ञः, परो वा मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादी वादलब्धिसम्पन्नो य: परेण न जीयते, मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं
भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः । अथवा 10 अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि अध्ययनविशेषा एवेति ।
[सू० ६८०] समणस्स णं भगवतो महावीरस्स णव गणा होत्था, तंजहागोदासगणे, उत्तरबलितस्सतगणे, उद्देहगणे, चारणगणे, उद्दवातितगणे, विस्सवातितगणे, कामिट्टितगणे, माणवगणे, कोडितगणे ।
[टी०] एते च नैपुणिका: साधवो गणान्त विनो भवन्तीति गणसूत्रं समणस्सेत्यादि 15 कण्ठ्यम्, नवरं गणा: एकक्रिया-वाचनानां साधूनां समुदाया:, गोदासादीनि च तन्नामानीति ।
[सू० ६८१] समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पन्नत्ते, तंजहा-ण हणति, ण हणावेति, हणंतं
णाणुजाणति, ण पतति, ण पतावेति, पतंतं णाणुजाणति, ण किणति, ण 20 किणावेति, किणंतं णाणुजाणति ।
[टी०] उक्तगणवर्त्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह- समणेणमित्यादि, नवभिः कोटिभिः विभागैः परिशुद्धं निर्दोषं नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तम्, तद्यथा- न हन्ति साधुः स्वयमेव गोधूमादिदलनेन, न घातयति परेण गृहस्थादिना, घ्नन्तं न नैव अनुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन १. "कृष्टक जे१ ॥ २. पा० विना- नानुजानाति जे१ खं० । नैवानुजानाति जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org