________________
नवममध्ययनं नवस्थानकम् ।
७७७
[सू० ६७७-६७९]
अन्नं पानं च वस्त्रं च, आलय: शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ [ ] इति । [सू० ६७७] णव पावस्सायतणा पन्नत्ता, तंजहा-पाणातिवाते, मुसावाते जाव परिग्गहे, कोहे, माणे, माया, लोभे ।
[टी०] पुण्यविपर्यासरूपस्य पापस्य कारणान्याह– नव पावस्सेत्यादि कण्ठ्यम्, 5 नवरं पापस्य अशुभप्रकृतिरूपस्याऽऽयतनानि बन्धहेतव इति । [सू० ६७८] नवविधे पावसुयपसंगे पन्नत्ते, तंजहाउप्पाते निमित्ते मंते आतिक्खिते तिगिच्छिते । कला आवरणे अन्नाणे मिच्छापावतणे ति त ॥१३१॥ [टी०] पापहेत्वधिकारात् पापश्रुतसूत्रं कण्ठ्यम्, नवरं पापोपादानहेतुः श्रुतं शास्त्रं 10 पापश्रुतम्, तस्य प्रसङ्गः तथाऽऽसेवारूप: विस्तरो वा सूत्र-वृत्ति-वार्तिकरूप: पापश्रुतप्रसङ्गः। उप्पाए सिलोगो, तत्रोत्पात: प्रकृतिविकाररूप: सहजरुधिरवृष्ट्यादिः, तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि १, तथा निमित्तम् अतीतादिपरिज्ञानोपायशास्त्रं कूरपर्वतादि २, मन्त्री मन्त्रशास्त्रं जीवोद्धरणगारुडादि ३, आइक्खिए त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोंब्यो बधिरा इति लोकप्रतीता: 15 ४, चैकित्सिकम् आयुर्वेद: ५, कला लेखाद्या: गणितप्रधाना: शकुनरुतपर्यवसाना द्वासप्ततिः, तच्छास्त्राण्यपि तथा ६, आवियते आकाशमनेनेत्यावरणं भवन-प्रासादनगरादि, तल्लक्षणशास्त्रमपि तथा, वास्तुविद्येत्यर्थः ७, अज्ञानं लौकिकश्रुतं भारतकाव्य-नाटकादि ८, मिथ्याप्रवचनं शाक्यादितीर्थिकशासनमिति ९, एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, च: समुच्चये । 20
[सू० ६७९] नव उणिता वत्थू पन्नत्ता, तंजहासंखाणे निमित्ते कातिते, पोराणे पारिहत्थिते । परपंडितते वाति, भूतिकम्मे तिगिच्छिते ॥१३२॥
[टी०] उत्पातादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह- नव निउणेत्यादि, निपुणं सूक्ष्मं ज्ञानं तेन चरन्तीति नैपुणिकाः, निपुणा एव वा नैपुणिकाः, 25 १. तत्र जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org