________________
७७५
[सू० ६७३]
नवममध्ययनं नवस्थानकम् । ___ लोह गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्ति: सम्बन्धनीया, केवलं मणय: चन्द्रकान्तादयः, मुक्ता मुक्ताफलानि, शिला: स्फटिकादिका:, प्रवालानि विद्रुमाणीति ७ । जो गाहा, योधानां शूरपुरुषाणां योत्पत्तिरावरणानां सन्नाहानां प्रहरणानां खगादीनां सा युद्धनीतिश्च व्यूहरचनादिलक्षणा माणवके निधौ 5 निधिनायके वा भवति, तत: प्रवर्त्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च सामादिश्चतुर्विधा, अत एवोक्तमावश्यके- सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स [आव० नि० १६९] त्ति ८ ।
नट्ट गाहा, नाट्यं नृत्यम्, तद्विधि: तत्करणप्रकार:, नाटकं चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः, तथा काव्यस्य चतुर्विधस्य धर्मा-ऽर्थ- 10 काम-मोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य १ अथवा संस्कृत-प्राकृता-ऽपभ्रंशसङ्कीर्णभाषानिबद्धस्य २ अथवा सम-विषमा-ऽर्द्धसमवृत्तबद्धतया गद्यतया चेति ३ अथवा गद्य-पद्य-गेय-वर्णपदभेदबद्धस्येति उत्पत्तिः प्रभवः शङ्ख महानिधौ भवति, तथा तूर्याङ्गाणां च मृदङ्गादीनां सर्वेषामिति ९ ।।
चक्क गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा अवस्थानं येषां ते तथा, अष्टौ 15 योजनान्युत्सेध: उच्छ्रयो येषां ते तथा, नव च योजनानीति गम्यते विष्कम्भे विस्तरे, निधय इति शेष:, द्वादश योजनानि दीर्घाः, मञ्जूषाः प्रतीताः, तत्संस्थिता: तत्संस्थाना:, जाह्नव्या गङ्गाया मुखे भवन्तीति । वेरुलिय गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमया: सौवर्णाः, विविधरत्नप्रतिपूर्णा: प्रतीतम्, शशि-सूर-चक्राकाराणि लक्षणानि चिह्नानि येषां ते तथा, अनुसमा: 20 अनुरूपा अविषमाः, जुग त्ति यूप: तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो द्वारशाखा वदनेषु मुखेषु येषां ते तथा, तत: पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, च: समुच्चये । पलि गाहा, निहिसरिनाम त्ति निधिभि: सदृक् सदृक्षं नाम येषां ते तथा, येषां देवानां ते निधय: आवासा: आश्रयाः, किम्भूता: ? अक्रेया अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च स्वामिता 25 च तेषु येषां देवानामिति प्रक्रम:, एते ते गाहा कण्ठ्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org