________________
७७४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अविद्यमानप्रत्यासन्नवसिमम्, स्कन्धावार: कटकनिवेशः, गृहं भवनमिति १ ।।
गणित गाहा, गणितस्य दीनारादि-पूगफलादिलक्षणस्य, चकारस्य व्यवहितः सम्बन्ध: स च दर्शयिष्यते, तथा बीजानां तन्निबन्धनभूतानाम्, तथा मानं सेतिकादि, तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं तुला-कर्षादि, तद्विषयं 5 यत्तदप्युन्मानं खण्ड-गुडादि धरिममित्यर्थः, ततो द्वन्द्वसमाहार: कार्यः, ततस्तस्य च, किमित्याह- यत् प्रमाणम्, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत् पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य व्रीह्यादे/जानां च तद्विशेषाणामुत्पत्तिश्च या सा पाण्डुके पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति भावः,
भणिता उक्ता जिनादिभिरिति २ । 10 सव्वा गाहा कण्ठ्या ३ । रयण गाहा, अक्षरघटनैवम्, रत्नान्येकेन्द्रियाणि
चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि सर्वरत्ने सर्व्वरत्ननामनि निधौ द्रष्टव्यानीति ४ । वत्थाणं गाहा, वस्त्राणां वाससां योत्पत्ति: सामान्यतो या च विशेषतो निष्पत्ति: सिद्धिः सर्वभक्तीनां
सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः प्रकारा येषां तानि तथा तेषाम्, किंभूतानां 15 वस्त्राणामित्याह- रङ्गाणां रङ्गवतां रक्तानामित्यर्थः, धौतानां शुद्धस्वरूपाणाम्, सर्वैवैषा महापद्मे महापद्मनिधिविषया ५ ।।
काले गाहा, काले कालनामनि निधौ कालज्ञानं कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह- भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं
पुराणम्, चशब्दाद् वर्त्तमानवस्तुविषयं वर्तमानम्, तीसु वासेसु त्ति 20 अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते,
शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च कृषि-वाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञान-शिल्प-कर्माणि प्रजाया: लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति ६ । १. 'काराणि जे१,२ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International