________________
७६९
10
[सू० ६६८]
नवममध्ययनं नवस्थानकम् । सोऽत्यासनस्तद्भावस्तत्ता, तया, अर्थोविकारादयो हि रोगा एतया उत्पद्यन्त इति, अथवा अतिमात्रमशनमत्यशनं तदेवाऽत्यशनता, दीर्घत्वं च प्राकृतत्वात्, तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, अहियासणयाए त्ति अहितम् अननुकूलं टोलपाषाणाद्यासनं यस्य स तथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा साजीणे भुज्यते यत्तु तदध्यसनमुच्यते [ ] इति वचनात् अध्यसनम् अजीर्णे भोजनम्, 5 तदेव तत्ता, तयेति, भोजनप्रतिकूलता प्रकृत्यनुचितभोजनता, तया, इन्द्रियार्थानां शब्दादिविषयाणां विकोपनं विपाक: इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि स्त्र्यादिष्वभिलाषादन्मादादिरोगोत्पत्ति:, यत उक्तम्
आदावभिलाष: १ स्याच्चिन्ता तदनन्तरं २ तत: स्मरणम् ३ । तदनु गुणानां कीर्तन ४ मुद्वेगोऽथ ५ प्रलापश्च ६ ॥
उन्मादस्तदनु ७ ततो व्याधि ८ जडता तत ९स्ततो मरणम् १० । [रुद्रटकाव्यालं० १४॥४-५।] इति । विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राजयक्ष्मादिरोगोत्पत्ति: स्यादिति ।
[सू० ६६८] णवविधे दरिसणावरणिजे कम्मे पन्नत्ते, तंजहा-निद्दा, निद्दानिद्दा, पयला, पयलापयला, थीणगिद्धी, चक्खुदंसणावरणे, 15 अचक्खुदंसणावरणे, ओहिदसणावरणे, केवलदसणावरणे ।
[टी०] शारीररोगोत्पत्तिकारणान्युक्तानि, अथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह- नवेत्यादि, सामान्य-विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनम्, तस्यावरणस्वभावं कर्म दर्शनावरणम्, तत् नवविधम्, तत्र निद्रापञ्चकं तावत् द्रा कुत्सायां गतौ [पा० धा० १०५४], नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति 20 चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समास:, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यत: सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्मप्रकृतिरपि 25 कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org