SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रचला, सा ह्युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेति, तथैव प्रचलातिशायिनी प्रचलाप्रचलाप्रचला, साहि चङ्क्रमणादि कुर्वतः स्वतुर्भवत्यतः स्थानस्थितस्वप्नभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाका कर्म्मप्रकृतिरपि प्रचलाप्रचला, स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिः 5 अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूता ऋद्धिः आत्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि स्वप्मुः केशवार्द्धबलसदृशी शक्तिर्भवति, अथवा स्त्याना जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानर्द्धिरिति, तादृशविपाकवेद्या कर्म्मप्रकृतिरपि स्त्यानर्द्धिः स्त्यानगृद्धिरिति वा, तदेवं 10 निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं सामान्यग्राही बोधश्चक्षुर्दर्शनम्, तस्यावरणं चक्षुर्दर्शनावरणम्, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनम्, तस्यावरणमचक्षुर्दर्शनावरणम्, अवधिना रूपिमर्यादया, अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं 15 सामान्यार्थग्रहणमवधिदर्शनम्, तस्यावरणमवधिदर्शनावरणम्, तथा केवलम् उक्तस्वरूपं तच्च तद्दर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविधं दर्शनावरणम् । [सू० ६६९] अभिती णं णक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धिं जोगं जो । ७७० अभीतिआतिया णं णव नक्खत्ता चंदस्स उत्तरेणं जोगं जोतेंति, तंजहा20 अभीती सवणो धणिट्ठा जाव भरणी । 25 [सू० ६७० ] इमीसे णं रतणप्पभाते पुढवीते बहुसमरमणिज्जातो भूमिभागाओ णव जोयणसते उ अबाहाते अवरिल्ले तारारूवे चारं चरति । [सू० ६७१] जंबूदीवे णं दीवे णव जोयणिया मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा । [सू० ६७२] जंबुद्दीवे दीवे भरहे वासे इमीसे ओसप्पिणीते णव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy