________________
[सू० ६६४-६६५] नवममध्ययनं नवस्थानकम् ।
७६७ [सू० ६६४] अभिणंदणाओ णं अरहातो सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं वीतिकंतेहिं समुप्पन्ने ।
[टी०] उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्यं जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह- अभिणंदणेत्यादि कण्ठ्यम् ।
[सू० ६६५] नव सब्भावपयत्था पन्नत्ता, तंजहा-जीवा, अजीवा, पुण्णं, 5 पावं, आसवो, संवरो, निजरा, बंधो, मोक्खो । ।
[टी०] अभिनन्दन-सुमतिजिनाभ्यां च सद्भूता: पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयन्नाह– नव सब्भावेत्यादि, सद्भावेन परमार्थेनाऽनुपचारेणेत्यर्थः पदार्था वस्तूनि सद्भावपदार्थाः, तद्यथा- जीवा: सुख-दुःख-ज्ञानोपयोगलक्षणाः, अजीवास्तद्विपरीता:, पुण्यं शुभप्रकृतिरूपं कर्म, पापं तद्विपरीतं कर्मैव, आश्रूयते 10 गृह्यते कर्मानेनेत्याश्रव: शुभाशुभकर्मादानहेतुरिति भावः, संवरः आश्रवनिरोधो गुप्त्यादिभिः, निर्जरा विपाकात् तपसा वा कर्मणां देशत: क्षपणा, बन्ध: आश्रवैरात्तस्य कर्मण आत्मना संयोग:, मोक्षः कृत्स्नकर्मक्षयादात्मन: स्वात्मन्यवस्थानमिति ।
ननु जीवाजीवव्यतिरिक्ता: पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात्, तथाहिपुण्य-पापे कर्मणी, बन्धोऽपि तदात्मक एव, कर्म च पुद्गलपरिणामः, पुद्गलाश्चाजीवा 15 इति, आश्रवस्तु मिथ्यादर्शनादिरूप: परिणामो जीवस्य, स चात्मानं पुद्गलांश्च विरहय्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देश-सर्वभेद आत्मन: परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीव: कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यम्, अत एवोक्तमिहैव जदत्थिं च णं लोए तं सव्वं दुप्पडोयारं, तंजहा- जीव च्चेय अजीव 20 च्चेय [सू० ४९], अत्रोच्यते, सत्यमेतत् किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्य-विशेषात्मकत्वाद्वस्तुन:, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यम्, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्य-पापे मुख्यानि तत्त्वानि संसारकारणानि, संवर-निर्जरे च मोक्षस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org