SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मनोविकार: सम्भाव्यत इति, पण्डका: नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एवेत्येकम् १, नो स्त्रीणां केवलानामिति गम्यते कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया [ ] इत्यादिकां प्रागुक्तां वा जात्यादिचतूरूपां कथयिता तत्कथको भवति ब्रह्मचारीति द्वितीयम् २, 5 नो इत्थिगणाई तीह सूत्रं दृश्यते केवलं नो इत्थिठाणाई ति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्रमानुसारित्वाच्चास्येतीदमेव व्याख्यायते, नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्या: स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः ? स्त्रीभिः सहैकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्तं नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या- नो स्त्रीगणानां पर्युपासको भवेदिति ३, नो स्त्रीणामिन्द्रियाणि नयन10 नासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमानि, आलोक्यालोक्य निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति ४, नो प्रणीतरसभोगी नो गलत्स्नेहबिन्दुभोक्ता __ भवति ५, नो पान-भोजनस्य रूक्षस्याप्यतिमात्रम् अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छन्भायं ऊणयं कुजा ॥ [पिण्डनि० ६५०] इत्येवंविधप्रमाणातिक्रमेणाऽऽहारक: अभ्यवहर्ता सदा सर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात् पान-भोजनयोर्ग्रहणमिति ६, नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्ता 20 चिन्तयिता भवति ७, नो शब्दानुपातीति शब्दं मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति अनुसरतीत्येवंशील: शब्दानुपाती, एवं रूपानुपाती, श्लोकं ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८, नो सातसौख्यप्रतिबद्ध इति सातात् पुण्यप्रकृते: सकाशाद्यत् सौख्यं सुखं गन्ध-रस-स्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः तत्परो ब्रह्मचारी, सातग्रहणादुपशमसौख्यप्रतिबद्धतायां न निषेधः, वापीति 25 समुच्चये, भवतीति ९ । उक्तविपरीता: अगुप्तयोऽप्येवमेवेति । १. सू० २८२ ॥ २. ब्रह्मचर्यसमाधिस्थानाभिधे षोडशेऽध्ययने ॥ ३. सदा भवति जे१ खं० ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy