________________
[सू० ६२६-६२८]
अष्टममध्ययनम् अष्टस्थानकम् ।
एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञप्त्यामुच्यन्ते - अभ्यन्तरपूर्वाया अग्रे अर्चिविमानं तत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अर्चिमालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वह्नयः, दक्षिणयोर्मध्ये शुभङ्करे वरुणाः, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभे गर्द्दतोयाः, अपरयोर्मध्ये सूराभे तुषिता:, 5 अभ्यन्तरोत्तराया अग्रे अङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेया:, बहुमध्यभागे रिष्टाभे विमाने रिष्टा देवा इति, स्थापना
अजहत्रुक्कोसेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति ।
७४३
अट्ठ 10
[सू० ६२६ ] अट्ठ धम्मत्थिगातमज्झपतेसा पन्नत्ता १, अधम्मत्थिगातमज्झपतेसा पन्नत्ता २, एवं चेव अट्ठ आगासत्थिगातमज्झपतेसा पन्नत्ता ३, एवं चेव अट्ठ जीवमज्झपएसा पन्नत्ता ४ ।
[टी०] कृष्णराजयो ह्यूर्ध्वलोकस्य मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्याविष्करणाय सूत्रचतुष्टयम्- अट्ठ धम्मेत्यादि स्फुटम्, नवरं धर्म्मा - Sधर्मा - ssकाशानां मध्यप्रदेशास्ते अष्ट ये रुचकरूपा इति, जीवस्यापि 15 केवलिसमुद्घाते रुचकस्था एव ते अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशाः, शेषास्त्वावर्त्तमानजलमिवानवरतमुद्वर्त्तन-परिवर्त्तनपरास्तत्स्वभावत्वाद्ये ते अमध्यप्रदेशा
इति ।
[सू० ६२७] अरहा णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अणगारितं पव्वावेस्सति, तंजहा पउमं, पउमगुम्मं, नलिणं, नलिणगुम्मं, 20 पउमद्धतं, धणुद्धतं, कणगरहं, भरहं ।
[सू० ६२८] कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो अरिट्ठनेमिस्स अंतितं मुंडा भवेत्ता अगारातो अणगारितं पव्वतित्ता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तंजहा
१. लौका खं० ॥ २. भगवती० ६/५/३२-३९ । ३. अर्चिर्वि जे१,२ खं० ॥ ४. अर्च्चिर्मालिवि जे२ ॥ ५. पनेयम् १ । स्थापना चित्रपरिशिष्टे द्रष्टव्या ।। ६. लौका जे१ पा० ।। ७. अष्ट जे१ पासं० मध्ये एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org