SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ७४२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ६२५] एतासि णं अट्ठण्हं कण्हरातीणं अट्ठसु ओवासंतरेसु अट्ठ लोगंतितविमाणा पन्नत्ता, तंजहा-अच्ची, अच्चिमाली, वतिरोयणे, पभंकरे, चंदाभे, सूराभे, सुपइट्ठाभे, अग्गिच्चाभे । एतेसु णं अट्ठसु लोगंतितविमाणेसु अट्ठविधा लोगंतिता देवा पन्नत्ता, 5 तंजहा सारस्सतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोधव्वा ॥१६॥ एतेसि णमट्ठण्हं लोगंतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोवमाई ठिती पण्णत्ता । 10 [टी०] आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलगतवर्णपरिणामविशेषवत्त्वेनाऽमनोज्ञान् कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह- उप्पिं इत्यादि सुगमम्, नवरम् उप्पिं ति उपरि हव्विं ति अधस्तात् ब्रह्मलोकस्य रिष्टाख्यो यो विमानप्रस्तटस्तस्येति भावः, आखाटकवत् समं तुल्यं सर्वासु दिक्षु चतुरस्रं चतुष्कोणं यत् संस्थानम् आकारस्तेन संस्थिताः 15 आखाटकसमचतुरस्रसंस्थानसंस्थिताः कृष्णराजय: कालकपुद्गलपङ्क्तयस्तद्युक्त क्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्तथा दर्श्यते- पुरत्थिमे णं ति पुरस्तात् पूर्वस्यां दिशीत्यर्थः द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यां तां स्पृष्टा स्पृष्टवती, एवं सर्वा अपि वाच्या:, तथा पौरस्त्य-पाश्चात्त्ये द्वे बाह्ये कृष्णराजी षडने षट्कोटिके, 20 औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्यो, सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तरा श्चतुरस्राः। नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपक्तिरूपत्वाद्, इतिरुपप्रदर्शने, वा विकल्पे, मेघराजीव या सा मेघराजीति । चाभिधीयते कृष्णत्वात्, तथा मघा षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा, माघवती सप्तमपृथिवी तद्वद्या सा माघवतीति, वातपरिघादीनि तु तमस्कायसूत्रवद् व्याख्येयानीति । १. दयंते जे१,२, खं० । दृश्यतां पृ० ७४० पं० ८ ॥ २. सू० २९१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy